सामग्री पर जाएँ
सर्वकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 340, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 340

'अन्योन्यमनुरक्तास्ते ह्यन्योन्यमनुजीविनः ।
अन्योन्यं प्रणताश्चैव लीलया परमेश्वराः' ॥
इति मत्स्यादिवाक्यमप्युपपन्नम् । एतेन त्रयाणां भेदाभेदावपि व्याख्यातौ वेदितव्यौ । ननु
तेषां कार्योपाधिकत्वेऽपि, 'त्रिधा कृत्वाऽऽत्मनो देहं सोऽन्तर्यामीश्वरः स्थितः' इति स्मृतेर्योगि-
कायव्यूहवल्लीलावतारत्वमेवाऽस्तु, किमर्थं विष्ण्वादीनां चेतनान्तरत्वं कल्प्यत इति चेन्न । कौर्मे-
'प्रधानं पुरुषं चैव प्रविश्याशु महेश्वरः ।
क्षोभयामास योगेन परेण परमेश्वरः ॥
प्रधानात् क्षोभ्यमानाच्च तथा पुंसः पुरातनात् ।
प्रादुरासीन्महद्वीजं प्रधानपुरुषात्मकम्' ॥
इत्यनेन, तथा विष्णुपुराणादिषु च पुरुषान्तरेण सह प्रकृतिं संयोज्यैव परमेश्वरस्तदुभया-
त्मकं देवतात्रयरूपं महान्तं सृजतीत्यवगमात् ।
'ब्रह्मादीनां त्रयाणां तु स्वहेतौ प्रकृतौ लयः ।
प्रोच्यते कालयोगेन पुनरेव समुद्भवः' ॥
इति मात्स्यादिभ्यस्तेषामुत्पत्तिलयसिद्धेश्च । अस्मिन् कूर्मवाक्ये ईश्वरप्रवेशो जीवस्य
ज्ञानेच्छाप्रयत्नव्यापनरूपः । क्षोभश्च गुणद्वारा । योगश्चैकाग्र्यम् । अयं च क्षोभः संयोगविशेषद्वारा
महतो हेतुः । एवं पुराणान्तरेभ्योऽपि न तेषां साक्षादवतारत्वम् । किंच । मनुना
'यत् तत्कारणमव्यक्तं नित्यं सदसदात्मकम् ।
तद्विसृष्टः स पुरुषो लोके ब्रह्मेति गीयते' ॥
इत्यनेनाव्यक्तब्रह्मकार्यस्यापि लौकिकब्रह्मत्वमुक्तवा, 'आपो नारा इति प्रोक्ताः' इत्यादिना
योगेन तस्यैव नारायणत्वमुक्तमतो नारायणाद्व्यतिरिक्त एव परमेश्वर इति । नच नारायणादि-
शब्दानामुपाधिमात्रपरत्वमिति वाच्यम् । तथा सति लक्षणापत्तेरिति । अत एव विष्ण्वादिदेवतायाः
कृष्णाद्यवतारेषु न पुरुषान्तरप्रवेशः श्रूयते, फलवान् वा भवतीत्यतोऽंशावतारत्वमेव । अत एव
भागवते ऋष्यादीन् प्रकृत्य कथ्यते,
भिन्नतया । ननु 'प्रधानं पुरुषं चैव प्रविश्य' इत्युक्तौ जीवद्वयमेकत्र देहे स्यादित्यत आहुः अस्मिन्
कूर्मवाक्य इति । प्रधानपुरुषयोः संचालनसम्भवेन कर्मत्वानुपपत्तिमाशङ्क्याह क्षोभश्चेति । तथा च
गुणान् संचालयामासेत्यर्थः । धात्वर्थमाह अयं चेति तथा च गुणानां मुख्यगौणभावेन संयोगं
कृतवानित्यर्थः । उपाधिमात्रेति मात्रचा शुद्धस्वरूपव्यवच्छेदः । तथा चाविभागाद्वैतहानिरिति
भावः । लक्षणापत्तेरिति जहदजहल्लक्षणापत्तेरित्यर्थः । नारायण इत्यत्र नारा आपस्तासां
त्यागोऽंशमात्रमात्मा नारायणान्तर्गतो योऽंशसंबन्धस्य त्यागः । अंशात्मनोरैक्यम् । एवं तत्त्वमसीत्यत्र
मायाविद्ययोस्त्यागः ब्रह्मविष्ण्वोरप्येवम्, एतन्मते त्वविभक्तत्वेनैवाद्वैतम् । गीतोक्तसात्त्विकविषयम् ।
अत आपत्तिस्तुल्या । अत एवाविभागाद्वैतं सिद्धम् । पुरुषेति विष्णुपुरुषादन्यः पुरुषः पुरुषान्तरं
तस्मिन् प्रवेशः । किंतु यस्मिन् विष्ण्वंश एव कृष्णे । फलं कार्यं तद्वान् पुरुषान्तरप्रवेशः । अंश इति
विष्ण्वंशावतारत्वमित्यर्थः । 'सर्वं तं परादात्' इत्युक्तश्रुतेरपकारः । अत्र प्रमाणमाहुः अत इति ।