सामग्री पर जाएँ
सर्वकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 313, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 313

२४४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० ४ सू० ४
प्रसङ्गात् । सत्त्वसहितानामेव चक्षुरादीनां प्रामाण्यात् । अतो निरपेक्षा एव
भगवन्निःश्वासरूपवेदा एव प्रमाणम् । संकेतग्रहस्तु वैदिक एव वेदविद्भिः कृतः ।
भाष्यप्रकाशः ।
न्यायाधीनम् । यदधीनं स तु सत्त्वगुण एव प्रकाशकत्वात् । तत्सहितानामेव तेषां प्रामाण्यात् । तस्य
यदा गुणान्तरेणोपमर्दस्तदानुग्राहकाभावेन तेषां नैर्बल्यादप्रामाण्यमेव । सत्त्वशुद्धिस्तु वेदो-
दितयथावत्स्थितसाधनैरेवेति तेषां सर्वेषां सुदूरवर्तिनोऽपि वेदस्यैव स्वसार्थकत्वार्थमपेक्षा । वेदस्य
तु न कथमपि तदपेक्षा । जैमिनीयादिनये तस्यापौरुषेयत्वात् । काणादादिनये चेश्वरजन्य-
त्वात् । अतोऽन्यनिरपेक्षा वेदान्तनये भगवन्निःश्वासरूपत्वेनैव सिद्धा आस्तिकमात्रमते अविप्र-
तिपन्ना वेदा एव प्रमाणम् । अतः सर्वप्रमाणाविषयत्वेऽपि सर्वनिरपेक्षत्वाद्भगवन्निःश्वास-
रूपत्वात् सर्वास्तिकोपजीव्यत्वाच्च वेदेकविषयत्वं सिद्धान्तीक्रियते । तथा चैषा युक्तिरित्यर्थः ।
नन्वेवंरूपत्वेऽपि वेदस्य न सर्वनिरपेक्षत्वं शब्दत्वात् । शब्दस्य बोधकतावः पदपदार्थसं-
बन्धग्रहाधीनत्वात् तद्ग्रहस्य च प्रयोजकप्रयोज्यव्यवहाराधीनत्वाद्, वस्तुतस्तु ब्रह्मणोऽव्य-
वहार्यत्वेन तत्र संबन्धग्रहस्य दौर्घट्याद् बोधकतावः अभावेन वेदविषयत्वसाधनमप्य-
नर्थकमेवेत्याशङ्कायामाहुः संकतेत्यादि । नैवमबोधकत्वं सापेक्षत्वं वा शङ्कनीयम् ।
रश्मिः ।
एवेति अनुभवसाक्षिकत्वादेवकारः । सत्त्वेत्यादिभाष्यं विवृण्वन्ति यदधीनमिति । तेषामिति
चक्षुरादीनामित्यर्थः । वेदोदितेत्यादि । 'वेदान्तविज्ञानसुनिश्चिताः संन्यासयोगाद्यतयः शुद्धसत्त्वाः'
इत्यभिप्रेतश्रुत्येकदेशप्रामाण्यात्तथेत्यर्थः । अतो निरपेक्षा इति भाष्यं विवृण्वन्ति अतोऽन्येति ।
अत्र विशेषणसंगतैवकारद्वयमयोगव्यवच्छेदकं शङ्खः पाण्डुर एवेति । तथा च भगवन्निःश्वासरूप-
वेदाः निरपेक्षत्वायोव्यवच्छेदवन्तः प्रमाणं भगवन्निःश्वासरूपवेदत्वायोव्यवच्छेदवदिति बोधो
भाष्ये । पदपदार्थेति वाक्ये तु द्याकाङ्क्षादिग्रहाधीनापि । प्रयोजकेत्यादि पूर्वतन्त्रे प्रथमे
'चोदनालक्षणोऽर्थो धर्मः' इत्यधिकरणे प्रयोजकस्य तत्प्रयोज्यस्य च पुरुषस्य यो व्यवहारो
गामानयेति वाक्ये गवायनन्यरूपमध्यमप्रवृत्तिरूपस्तमवलोक्य सर्वैर्गोशब्दस्य सास्नादिमति पिण्डे
संगतिर्गृह्यते इति तदधीनत्वमिति स्थितम् । तत्रेयं प्रणाली गामानयेति प्रयोजकवृद्धेनोक्तः प्रयोज्य-
वृद्धस्तदर्थमवगत्य गामानयति तत्पश्यन् बालस्तया क्रियया तस्य प्रयत्नमनुमिनोति प्रयत्नवान्
क्रियायाः यथाहमिति तेनेच्छामिच्छावान् प्रयत्नाद्यथाहमित्यनुमिनोति तदनन्तरं गोविषयकज्ञानवान्
तद्विषयेच्छाया यथाहमितीच्छया तद्विषयकं ज्ञानमनुमिनोति ततस्तत्र हेत्वाकाङ्क्षायामुपस्थितत्वा-
च्छब्दमेव कारणत्वेन कल्पयति ततो गवादिपदानां प्रत्येकमावापोद्वापाभ्यां गोपदं गोधीजनकमित्या-
दि कल्पयति कृप्ते च तस्मिन्नतिप्रसङ्गभङ्गभिया तर्जननानुकूलं शक्तिरूपं संबन्धं कल्पयति तदु-
त्तरं च क्वचिद्व्यवहारात् क्वचिदुपमानात् क्वचिच्छान्दाप्तारणादिरूपाद्भवतीति । संबन्ध-
ग्रहस्येति प्रतिपाद्यप्रतिपादकभावस्य । आशङ्कायामिति शांकराशङ्कायामित्यर्थः । इदानीं
ब्रह्मलोको व्यापकः सर्वोपरि वरीवर्ति 'अथ यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरो-
स्मिन्नन्तर आकाशस्तस्मिन् यदन्तस्तदन्वेष्टव्यं तद्वा विजिज्ञासितव्यम्' इतिश्रुतेः । अग्रे च
तस्य पुरत्वसंपादनाथं किं तत्र वर्तते यदन्वेष्टव्यं यद्वा विजिज्ञासितव्यमिति प्रश्ने 'यावान्
वायमाकाशः तावानेषोन्तर्हृदय आकाशः उभे अस्मिन् द्यावापृथिवी अन्तरेव समाहिते' इत्या-
224