सामग्री पर जाएँ
सर्वकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 266, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 266

भाष्यप्रकाश-रश्मि-परिवृंहितम् । १७९
मन्त्राणां कर्मणां चैव दर्शनश्रवणाच्छुतौ ।
कृतिश्च सिद्धतुल्यत्वं वेदः स्वार्थे च संमतः ।
'प्रजापतिरकामयत प्रजायेय' इति । 'स एतदग्निहोत्रं मिथुनमपश्यत्' ।
'प्रजापतिर्यज्ञानसृजताग्निहोत्रं चाग्निष्टोमं च पौर्णमासीं चोक्थ्यं चामावास्यां
चातिरात्रं च तानुदमिमीत यावदग्निहोत्रमासीत् तावानग्निष्टोम' इत्यादि । न
ह्युपाख्यानानां मिथ्यार्थत्वं बुद्धजन्मनाः पुरोक्तं युक्तं वा । तथा सति वेदानाम्-
अप्रामाण्यमेव स्यात् । मिथ्योपाख्यानप्रतिपादकलोकवत् ।
भाष्यप्रकाशः ।
पूर्वकं तदनुसारिणाम् । चैवेति चकारो 'अपश्यत् पुरोडाशं कूर्मं भूत१ सर्पन्तम्' इति द्रव्या-
दीनां दर्शनस्य समुच्चायकः । मन्त्राणां दर्शनं तु, 'स एतं कसर्णीरः काद्रवेयो मन्त्रमपश्यत्,
स एतं दीक्षितवादमपश्यत्' इत्यादिषु बोध्यम् । स्वार्थे चेति चोऽप्यर्थे । अतः स्तुतिं सम्पु-
चिनोति । उक्तं विभजन्तो दर्शनस्य श्रुती आहुः प्रजापतिरित्यादि । अत्राद्या तैत्तिरीय-
ब्राह्मणस्था । अस्सामपश्यदित्यस्य ज्ञानार्थताया अपि शक्यवचनत्वात् सिद्धार्थत्वं न निःसं-
दिग्ग्धं स्यादित्यतो द्वितीयाया उपन्यासः । सा च संहिताप्रथमष्टकस्था । तत्रोक्तसो-
न्मानस्य कर्मणामसिद्धत्वेऽशक्यवचनत्वादिति । न हीत्यादिकं विभागभाष्यम् । तेनायमर्थः ।
व्यासादधीतवेदः श्रुतभारतः स्वयमपि जैमिनिर्यदि धर्मरूपायाः क्रियायाः सिद्धत्वं नामिप्रे-
यात् तदा भावार्थाधिकरणे, 'भावार्थाः कर्मशब्दास्तेभ्यः क्रिया प्रतीयेत' इत्यनेन सिद्धाव-
रश्मिः।
कर्मदर्शनश्रुतेर्भाष्ये वक्तव्यत्वान् मन्त्रदर्शनश्रुतेश्चानुक्तत्वातं दर्शयन्ति मन्त्राणामित्यादि ।
भाष्ये । कृतेश्चेति कृतिर्यत्नस्तस्य नित्यत्वेपि क्रीडार्थमाविर्भावतिरोभावाभ्यां साध्यत्वमानेपि
सिद्धतुल्यत्वं, सर्वस्य नित्यत्वादिति । प्रकृते । दर्शनश्रुती इति दर्शनश्रुती इति द्विवचनान्तम-
दस् । ज्ञानार्थताया इति एवं भविष्यतीति ज्ञातवानित्येवं साध्यज्ञानार्थताया उक्तप्रकारेण
वा इत्यर्थः । उक्तस्येति उदमिमीतेत्युक्तस्येत्यर्थः । इतीति । नहि साध्यस्य घटसोन्मानं
संभवतीति भावः । विभागभाष्यमिति 'वेदः स्वार्थ' इत्यादिकारिकैकदेशव्याख्याश्रुत्योपन्या-
स्यानभाष्यम् । विभागशब्दस्तावच्छाख्यानेषु प्रयुज्यते विशिष्य तु भाष्यविभागे प्रतिविद्यासामः इति
सृष्टिमैदवादे कथनात् । अर्थपरोत्र विभागशब्दः । स्वरूपपरो यथाह 'शब्दचित्रं वाच्यचित्रमव्य-
ङ्ग्यमपरं स्मृतम्' इत्यत्राव्यङ्ग्यमधममभिप्रेतमेतावदधमकाव्यलक्षणमितरद्विभागपरमिति । तथात्र
नहीत्यादि वेदस्वरूपपरं न भवति किंतु व्याख्यानभाष्यमित्यर्थः । तथापि स एवार्थः । यद्वा ।
यथा संहिता एकप्राणस्य योगः । वायुः शब्दतामापद्यते इति प्राञ्चः । तदङ्गगवद्भासस्य सूत्राणि
तदीयैकप्राणयोगः एकस्य विभज्य धारणार्थं विभागस्य भाष्यं युक्तमिति । अत एव शेषभाष्ये
व्याख्यायते इति वक्तव्ये विभज्यत इत्युक्तम् । तेनेति एकदेशभाष्यस्य पूर्वकारिकाव्याख्यान-
सापेक्षत्वेनेत्यर्थः । वेदस्वरूपेतरच्छास्त्रार्थं तत्परत्वेनेति वार्थः । अयमिति मीमांसकादिनिरासको
वक्ष्यमाणोर्थ इत्यर्थः । तदर्थं सार्धकारिकार्थमाहुः व्यासादित्यादि । भावार्थावित्यादि
द्वितीयाध्याये इत्यर्थः । सिद्धेत्यादि भावार्था इत्यत्र भावेष्वब्दास्त्वद 'भावे घञ्' इति सूत्रनिष्पन्नः
१. 'कृतिश्च' इति भाष्यपाठे रश्मिकारैः कृतेश्चेति स्वीकृत्य व्याख्यातोस्ति ।
179