सामग्री पर जाएँ
सर्वकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

कॉपीराइट समस्या बताएँ

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 2591, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 2591

क्षुधितो भविष्यतीति शय्यानिकटे भोगं स्थापयेति गोपीमाज्ञापयन्ती तद्द्वारा भोगं धारयति तद्भावेन
धृतभोगे प्रीतिं कुर्वित्याहुः यशोदाया इति ।
यशोदायाः स्तन्ये तदनु नवनीते व्रजगवां
विहारे दध्यन्ने द्विजयुवतिदत्ते बहुगुणे ।
तथा मित्रान्नाशासे पृथुकवरमुष्टी मुरहरे
यथा प्रीतिस्तां मे प्रकटय सुनैवेद्यनिचये ॥ ५ ॥
पूर्वश्लोकव्याख्यानेन व्याख्यातप्रायमेतत् । मित्रात्सुदाम्नः पृथुकवरमुष्टौ पृथुकः खाद्यभेदस्त-
त्सम्बन्धिनी वरा मुष्टिस्तस्याम् । यथेति यशोदादत्तत्वेन प्रकारेण उभयत्र स्ववृत्तित्वेन प्रकारेण 'वयं
गोवृत्तय' इति वाक्याद् द्विजपत्नीदत्तत्वेन प्रकारेण मित्रदत्तत्वेन प्रकारेण । सुनैवेद्यं तया दत्तम्,
तस्य निश्चयः शरदुत्सवादौ ।
प्रीतिकरणं विज्ञाप्य भोजने कृपाकरणे विज्ञापयांबभूवुः विदुरस्येति ।
[