सामग्री पर जाएँ
सर्वकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 259, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 259

शङ्क्यम् । तत्रार्थज्ञानरूपफलायाक्षरग्रहणरूपाध्ययनस्य विधानात् फलस्याविधेयत्वात् । किंच ।
नियोगविषयभूतमात्मज्ञानं यद्यनुत्पन्नं तदा यागवत् साध्यत्वाभावाद् विषयत्वासिद्ध्या तद्विषयक-
नियोगस्यासिद्धिः । यदि च श्रवणाद्युत्पन्नं तदा श्रवणादिनेवात्मज्ञानसिद्धेः किमन्तर्गडुना
नियोगेन । नच फलार्थं तदपेक्षा । 'तमेव विदित्वा' इति श्रुतौ नियोगनिरपेक्षाज्ज्ञानादेव मुक्तेरुक्त-
त्वात् । किंच । ज्ञाननियोगयोः परस्परसंबन्धे वाक्यानानर्थक्यात् संबन्धोऽवश्यं वक्तव्यः । स च
गुणप्रधानभावेनैव दृष्ट इत्येकस्यावश्यं प्राधान्यं वक्तव्यम् । तद्यदि ज्ञानस्येत्युच्यते तदा नियोगस्य
वाक्यार्थतया प्राधान्यं सर्वत्र यत्तत्सिद्धांतं तद्धीयेत । यदि नियोगस्यैव तदुच्यते तदा ज्ञानस्य
नियोगार्थत्वान्मुक्त्यर्थत्वं न स्यात् । तस्योभयार्थत्वे प्रमाणाभावात् । नच नियोगो मुक्त्यर्थः ।
अश्रुतत्वात् । तमेव विदित्वेति ज्ञानस्यैव साक्षादुद्देशेन श्रुतत्वादिति । एतदग्रे च, यो रामा-
नुजमतोपन्यासोऽस्माभिः द्वितीयःपूर्वपक्ष उक्तो, यद्यपि 'शास्त्रयोनित्वात्' इत्यादिना, यच्च तृतीय उक्तो
यद्यपि वेदान्तवाक्यानामित्यादिना, तदुभयमुपन्यस्य ततः पूर्ववदेव सृष्टिवाक्यप्रभृतीनां सम्य-
गन्वयः समन्वय इति समन्वयपदार्थमुक्त्वा युक्तिरेवमाहुः । नच तेषां ब्रह्मपराणामर्थान्तरकल्पना
युक्ता । श्रुतहान्यश्रुतकल्पनाप्रसङ्गात् । नच कार्य एव प्रामाण्यं प्रतिपत्तुं युक्तम् । स्वरूपाव-
बोधेऽपि प्रामाण्यस्याविशिष्टत्वात् । अपौरुषेयत्वस्यैव प्रामाण्ये तन्त्रत्वात् । नचाग्निहोत्रादिवाक्येषु
कार्यावगतिः प्रामाण्ये तन्त्रमिति शङ्क्यम् । तस्य चैत्यवन्दनादिवाक्येऽपि तुल्यत्वात् । अथापौ-
रुषेयत्वे सत्यनपेक्षत्वं तन्त्रमिति विभाव्यते । तदा तु वेदान्तेऽपि तस्य तुल्यत्वात् स्वरूपपर-
त्वेऽपि प्रामाण्यमक्षुण्णमेव । किंच । पदानां स्वार्थप्रत्यायनेऽनपेक्षत्वं लोकवेदसाधारणम् ।
वाक्यानां तु लोके परापेक्षमेव प्रामाण्यम् । अन्यथा सपूपं तिष्ठति पश्येत्यादीनामपि तत् स्यात् ।
मन्तव्य इत्यादिः । दर्शनस्य प्रत्यक्षेतरत्वादिति भावः । विधानादिति न तु ज्ञानस्य विधा-
नात् । फलस्य ज्ञानस्य । अनुत्पन्नमिति श्रवणादिभिरित्यर्थः । किंतु सिद्धमिति भावः ।
श्रवणादिनेति विधिविषयेण । आत्मज्ञानसिद्धेरौषधफलवत् । अन्तरिति व्यर्थं न द्रष्टव्य
इति । नियोगेन विधिना । तदपेक्षेति नियोगापेक्षेत्यर्थः । नियोगेत्यादि विदित्वेत्यत्र लिङ्-
लोड्तव्यादीनां विरहेण तथेत्यर्थः । असंबन्ध इति संबन्धः सहोच्चारणं असंबन्धोऽसहोच्चारि-
तत्वं तस्मिन् सति । आनर्थक्यमप्रामाण्यं तस्मात् । दृष्ट इति धवखदिरौ छिन्धीत्यत्र
धवखदिरादिव्यतिरिक्तस्थले दृष्ट इत्यर्थः । धवखदिरयोर्गुणप्रधानभावाभावात् । मुक्त्यर्थ-
त्वं ज्ञानस्य नियोगस्य तद्विषयतेत्याशङ्क्य निषेधन्ति न च नीत्यादि । निषेधे हेतुमाहुः
अश्रुतेत्यादि । तदुद्देशेनेति मुक्त्युद्देशेनेत्यर्थः । पूर्ववदिति रामानुजसिद्धान्तवदित्यर्थः ।
युक्तिरिति धर्मे (ब्रह्मणि) एव समन्वये युक्तिरित्यर्थः । अपौरुषेयत्वस्यैवेति एवकारेण
कार्यावगतिव्यवच्छेदः । तन्त्रत्वं प्रयोजकत्वं तस्मात् । कार्यावगतिरिति जुहुयादिति होमे
कृतिसाध्यत्वावगतिः । तस्येति कार्यावगतिरूपतन्त्रस्य चैत्यवन्दनं कुर्यादिति वाक्येपीत्यर्थः ।
स्वरूपेति स्वरूपावबोधकत्वेपीत्यर्थः । परापेक्षमिवि वाकाङ्क्षायोग्यतासंनिध्यपेक्षमित्यर्थः ।
स्फुटकपदार्थसत्त्वापेक्षं वा । सपूपमिति पश्य मृगो धावतीतिवदन्वयः । तत्स्यादिति प्रामाण्यं