सामग्री पर जाएँ
सर्वकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

कॉपीराइट समस्या बताएँ

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 2575, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 2575

परिशिष्टम् । ७१
मालामुत्तार्य राजभोगसमर्पणमाहुः ततो राजभोगं समर्पयेच्छ्रीमदिति ।
श्रीमद्राधाङ्गसौगन्ध्यागरुधूपार्पणाद्विभो ।
भावात्मकूनसामग्र्यां भोगेच्छां प्रकटीकुरु ॥ ५७ ॥
अगरुधूपार्पणस्य विशेषणं पूर्ववच्चन्दनधूपार्पणस्योपलक्षकम् । तेन मुक्तः कृतसामग्रीको
भवति । 'मुक्तोपसृप्यव्यपदेशात्' इति व्याससूत्रात् । धूपार्पणेन मुक्तत्वं तु तत्त्वसागरे 'कृष्णा-
गरुसमुत्थेन धूपेन श्रीधरालयम् । धूपयेद्वैष्णवो यस्तु स मुक्तो नरकार्णवा'दिति नृसिंहपरिचर्यायाम् ।
भोगेच्छाकारणत्वेन भक्त्यान्याज्ञादुरात्मनः । सामग्रीज्ञानार्थं विशेषणम् । आभावात्मेति । भावो
भक्तिर्दासरूपा तस्यामात्मा स्वरूपं यस्याः कृतसामग्र्याः । तथा च 'मदन्यत्ते न जानन्ति नाहं तेभ्यो
मनागपि' इति वाक्ये तत्पदार्थो भक्तत्वावच्छिन्नस्तत्र भक्तत्वं भक्तिरेव । तस्यामात्मा स्वरूपं
यस्या इति सामग्र्या आत्मज्ञानविषयत्वम् । ततो जानातीच्छति यतत इति प्रणाल्या भोगेच्छां
प्रकटीकुर्वित्युक्तम् ।
दीपः समर्पितो भोग्यरूपार्थाङ्गप्रदीपने ।
तद्दीपनेन बोधितभावो भोजनमाचर ॥ ५८ ॥
प्रदीपने प्रकाशने । ननु सूर्यप्रभाप्रकाशितेऽह्ने प्रकाशकान्तरदीपापेक्षाभाव इति चेन्न । भूयः
प्रकाशदेशान्मन्दिर आगच्छत आत्मनः प्रथममपेक्षाभावे मानाभावात् । उद्दीप्तभावस्तूरीसस्नेहः
'धूपदीपोपहाराणी'ति श्रीभागवतम् । नारदीयकल्पे तु 'सघृतं गुग्गुलं धूपं दीपं गोगृतदीपितम् ।
समस्तपरिवाराय हरये श्रद्धयार्पयेदि'त्युक्तम् ।
धूपदीपानुक्तोपहाराण्याहुः ब्रजेति ।
ब्रजस्त्रीकरयुग्मात्मयन्त्रे पात्रं च तन्मयम् ।
स्थापितं ते भोजनार्थे योग्यभोज्याङ्गसम्भृतम् ॥ ५९ ॥
व्याख्यातम् ।
गुप्तरस इव प्रकारमाहुः स्वर्णेति ।
स्वर्णपात्रेषु दुग्धादि दध्याद्यं राजतेषु च ।
मृत्पात्रेषु रसालाद्यं भोज्यं सन्द्रोणकादिकम् ॥ ६० ॥
राजते नवनीतं च पात्रे हैमे सितां तथा ।
यथायोग्येषु पात्रेषु पायसव्यञ्जनादिकम् ॥ ६१ ॥
सूपौदनं पोलिकादि तथाऽन्नं च चतुर्विधम् ।
शुद्धं भावैकसंशुद्धं राधया सहितो हरे ॥ ६२ ॥
सन्द्रोणकं सन्धितं तदादिकमादिपदेन निम्बार्द्रकादि । यथायोग्यानि पात्राणि ।
श्रीपद्मपुराणे 'नैवेद्यपात्रं वक्ष्यामि केशवस्य महात्मनः । हैरण्यं राजतं कांस्यं ताम्रं मृण्मयमेव च ।
पालाशं पद्मपत्रं वा पात्रं विष्णोरतिप्रियम्' । इति नृसिंहपरिचर्यायाम् । सूपशब्देन 'दारि' इत्युच्यते
लोके तद्ग्राह्यम् । पोलिका रोट्यः आदिपदेन बाटाः । चतुर्विधमन्नं भोज्यं तण्डुलादि, लेह्यं शिख-
रिण्यादि, चोष्यमिक्षुदण्डादि, पेयं.दुग्धादि । भावैकसंशुद्धं भक्त्यैकसंशुद्धं सिद्धान्तरहस्योक्तरीत्या ।
नवनीतप्रियजित्स्वरूपे राधासखिर्भाला वा भावनीया । अत्र भावना गुप्तरसे स्फुटैव, उपहाराणीत्यत्र
2437