सामग्री पर जाएँ
सर्वकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

कॉपीराइट समस्या बताएँ

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 2571, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 2571

परिशिष्टम् । ७५
वस्त्रार्पणमाहुः प्रियेति ।
प्रियाङ्गतुल्यवर्णानि वस्त्राणि व्रजनायक ।
समर्पयामि कृपया परिधेहि दयानिधे ॥ ४० ॥
प्रियाङ्गेत्यादिपूर्ववद् ब्रजानन्दवाय । ननु लोहितशुक्लनीलरूपाणि प्राप्तानि न परं पीतहरितकपिश-
चित्ररूपाणीति चेन्न । त्रिविधरूपभेदत्वादन्येषाम् । तथा च श्रुतिः, 'यदग्ने रोहितं रूपं तेजसस्तद्रूपं
यच्छुक्लं तदपां यत्कृष्णं तदन्नस्येति यद् धूम्रं तद्वायोरि'त्याद्यवर्णश्रुतिरित्यनन्तानि रूपाणीति प्रस्थान-
रत्नाकरेऽस्ति । वस्त्राणि यथाकालं 'देशकालविभागविदि'ति चतुर्थस्कन्धवाक्ये दैशिकविशेषणात् ।
कृपयेत्यत्र परिधानकारणं कृपा गृह्यते न विज्ञानकारणं वाक्यं पूर्वमुक्तम् ।
अलङ्कारार्पणमाहुः भूषणेति ।
भूषणान्यवतारात्मकान्येतान्यर्पयामि ते ।
प्रियाङ्गतुल्यकान्तीनि प्रसीद व्रजसुन्दर ॥ ४१ ॥
अवतारात्मकानि द्वितीयस्कन्धसुबोधिन्यां सप्तमाध्याये यद्यद्भावतारो 'लसन् महारत्न-
हिरण्मयाङ्गद' इति 'नामेरसावृषभ' इत्यत्र निरूपितः । हयग्रीवो हि स्फुरन्महारत्नकिरीटकुण्डलरूपः ।
नृसिंहो भगवान् कौस्तुभरूपः । यो हरिः स वनमाला । वामनो हि कटिमेखलारूपः । नूपुरकङ्कणादीनि
मन्वन्तरावताररूपाणि । प्रियाङ्गेत्यादि विशेषणं पूर्ववत् । व्रजसुन्दरेति संबोधनम् तदनुरूप-
शृङ्गाररूपभजनार्थमुक्तभाष्यात् ।
प्रियेति ।
प्रियानासाभूषणस्थबृहन्मुक्ताफलाकृतिम् ।
समर्पयामि राधेश गुञ्जाहारमतिप्रियम् ॥ ४२ ॥
प्रियाणाम् नासाभूषणानि तत्स्थानि बृहन्ति मुक्ताफलान्यादान्ते च येषां मणीनां
ते तथोक्तास्तेषामिवाकृतिर्यस्य हारस्य तम् । राधेशेति संबोधनम् तादृशहारसमर्पणे प्रम्वनिक्षिप्तत्यागार्थम् ।
मिलितेति ।
मिलितान्योन्याङ्गकान्तिचाकचक्यसमं विभो ।
अङ्गीकुरुष्वोत्तमाङ्गे केकिपिच्छमतिप्रियम् ॥ ४३ ॥
मिलिता अन्योन्यस्याङ्गकान्तयः पीताङ्गकान्तिः श्यामाङ्गकान्तिश्चोभे मिलिते हरिता
कान्तिः लोहिताङ्गकान्तिर्नीलाङ्गकान्तिश्चोभे मिलिते ताम्रवर्णकान्तिस्तयोः कान्त्योः शोभयोः चाकचक्यं
भास्वरशुक्लं रूपं तेन समम् । चाकचक्यं लौकिकशब्दानुकरणं दीप्तिवाचकम् । अमरकोशादान्य-
त्रिको वा शब्दः । केकिनां मयूराणां पिच्छं अङ्गीकुरुष्वेत्यात्मनेपदम्, 'मयूराश्चित्रिता येने'ति
स्ववक्त्रनिःसृतमयूरचित्रश्रैष्ठ्यवाक्यसत्यत्वरूपम्, अङ्गीकारफलस्य कर्तृब्रह्मगामित्वात् ।
गोपेति ।
गोपस्त्रीहृत्स्थितं श्रीमच्छृङ्गारात्मकमाञ्जनम् ।
शोभार्थं मातृवद्दत्तमङ्गीकुरु व्रजाधिप ॥ ४४ ॥
मातृवदित्यत्र तृतीयान्ताद्वतिः मया दत्तम् । ननु शृङ्गारात्मकमञ्जनं मातृवद्दत्तमित्यनु-
चितमिति चेन्न । हे व्रजाधिपेति संबोधनाद् व्रजस्य ग्रामीणाः स्त्रियो न चतुराः नागर्यश्चतुरा-
स्तासाधिप इत्यनौचित्यभावाद् अङ्गीकारफलस्य परगामित्वात्परस्मैपदम् ।
2433