अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2541, कुल 2600 में से
संदर्भ में पढ़ेंAn exact, line-by-line transcription of the provided Sanskrit text page into pure Unicode Devanagari with line markers:
परिशिष्टम्। ४५
मार्गशिरः । भगवतः श्र्युत्तमपुरुषस्य भगिनीभावनं पूजनं चाहुः स्वेति ।
स्वनाथप्रापिकां देवीं सन्तुष्टां कृष्णरूपिणीम् ।
भावयित्वात्मभजनीये रूपे पूजयेच्च ताम् ॥ १ ॥
नन्वन्याश्रयोऽन्यत्रान्यारोपे भ्रमश्चेति चेन्न । साधनाध्याये सर्ववेदान्तप्रत्ययाधिकरणे 'सर्ववेदा-
न्तप्रत्ययं चोदनाद्यविशेषात्' 'भेदान्नेति चेदेकस्यामपि' 'स्वाध्यायस्य तथात्वेन समाचारेऽधिकाराच्च
सववच्च तन्नियमः' 'दर्शयति चे'ति सूत्रचतुष्टयसिद्धमुपसंहारसूत्रभाष्य उच्यते आशङ्कामुखेन । ननु पूर्वसू-
त्रोक्तरीत्या गुणोपसंहारो न कचिदपि प्राप्तावसर इति सिद्धम् । "दृश्यते चोपसंहारः रामोपनिषत्सु 'यो
वै ये मत्स्यकूर्माद्यवतारा' इत्यादिनाेक्तावताररूपत्वस्य श्रीरामे