सामग्री पर जाएँ
सर्वकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

कॉपीराइट समस्या बताएँ

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 2525, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 2525

पदवाच्याद् दृढानन्दः कृष्णात्मा सदानन्दसविकल्पकज्ञानरूपः तावतीं मायां दूरीकृत्य प्रादुर्भवति
तत्र आत्मस्वरूपं यस्य शृङ्गारस्य । प्रकृते पूर्वोक्तोऽयमेव विभावने व्यञ्जनया विभावपदवाच्यमुक्त-
मुमुक्षुरूपोद्दीपनविभावरूपभक्तानां मनोन्तर्लीनरत्यादेरीषत्प्रकाशः अनुभावनेनानुभावपदवाच्यकटाक्ष-
भुजक्षेपादिभिः स्फुटतरं प्रकाशमाहुः । भावेति अनुभावनं तथाभूतस्य रत्यादेरास्वादाङ्कुरयोग्यता-
नयनमनेन व्यापारेणानुभवपदवाच्यकटाक्षभुजक्षेपादिभिः भक्तानां मनोन्तर्लीनरत्यादेः भावा अङ्कुरा
आत्मनि यस्य शृङ्गारस्य, यद्वा स्फुटतरः प्रकाशः । इत्थं च कृष्णात्मकस्य भावैरनुभावैर्यैयेष्टाङ्कुरं
स्वाद्यरूपाङ्कुरं आत्मा स्वरूपं विभावात्मकं यस्य । समासान्तः कप् । भावपदं प्रेमाणमन्तरेण न
किञ्चिल्लीलास्यमित्यसुसूचत् । उद्यानाद्युद्दीपनविभावानुवादवत् सञ्चारिणामनुवादः । सहकरणेन
व्यापारेण तथाभूतस्य रसास्वादाङ्कुरप्रादुर्भावनरूपेण सहकारिपदवाच्यवैराग्यग्लानिशङ्काहर्षदैन्य-
चिन्तास्मृतिधृतिब्रीडाचपलताहर्षवेगजडतागर्वविषादौत्सुक्यमनिवितर्कादिभी रत्यादिसामग्रीवैचित्र्या-
पादकैः स्फुटतमः प्रकाशो भक्तानां मनोन्तर्लीनरत्यादेः कृष्णात्मकस्य । तदर्थं विशेषणमाहुः अनि-
रिति । 'यतो वाच' इति श्रुत्युक्तोऽनिर्व्वाच्यानन्दपदेन रूप्यते यः स आनन्दस्तस्यानुभवः
साक्षी ज्ञानज्ञेयानामाविर्भावतिरोभावज्ञानात् स्वयमेवाविर्भावतिरोभावहीनः स्वयंज्योतिः स साक्षी-
त्युच्यत इति श्रुतेः स्वयं ज्योतिरूपो यस्य कृष्णात्मकस्य स तथोक्तः । समासान्तः कप् । श्रुतिः ।
'समाना चासृत्युपक्रमादमृतत्वं चानुपोष्य' इत्यधिकरणे सूत्राणि च । 'स्वयमेवात्मनात्मानं वेत्थ
त्वं पुरुषोत्तम' इति गीता । 'अथ यदतः परो दिवो ज्योतिर्दीप्यते विश्वतः पृष्ठेषु सर्वतः पृष्ठेष्वनुत्त-
मेषूत्तमेषु लोकेष्वि'ति श्रुतिः । 'ज्योतिश्चरणाभिधानादि'ति सूत्रम् । काव्यप्रकाशेपि 'लौकिकप्रत्यक्षा-
दिप्रमाणतटास्थ्यावबोधशालिपरिमितयोगिज्ञानवेद्यान्तरसंस्पर्शरहितस्वात्ममात्रपर्यवसितपरिमिततरयोगि-
संवेदनविलक्षणलोकोत्तरस्वसंवेदनगोचर इति प्रत्ययोप्यभिधीयतामिति सार्धश्लोकेनोक्तं स्वरूप-
मभ्यर्हितत्वाच्छ्रुतीनां 'मनोरथान्तं श्रुतयो यथा ययु'रिति वाक्यात् । गुर्व्यस्तास्तु दशधा स्त्रीपुरुष-
भेदेन विंशतिधाऽतो भक्तमनोरथा अपि विंशतिधेत्यन्येषामप्यधिकारः मनोरथान्तप्राप्तिश्च ॥ ३ ॥ ४ ॥
एवं प्रेमा निरूपितः स न शृङ्गारः । संज्ञाभेदात् । संज्ञाभेदाद्भेदी हि पूर्वतप्रसिद्धः । शृङ्गार
इत्यन्ये । परं रसत्वेन प्रेमा विवक्षितः । रसत्वं च शृङ्गारमन्तरेणान्येषु नास्तीति शृङ्गारनिरूपणं
प्रतिज्ञातम् । स चापुष्टो रसाभास इति तत्पोषकावाहुः । भावाभासेत्यादि ।
भावाभासरसाभासौ पोषकौ तस्य सम्मतौ ।
रसाभासभावाभासा अनौचित्यप्रवर्तिताः । 'तदाभासा अनौचित्यप्रवर्तिता' इति
काव्यप्रकाशात् । न च रस एव रसाभासः सकलकारणकारणे अनौचित्यप्रवर्तितत्वादिति वाच्यम् ।
अनौचित्यप्रवर्तकानामनधिकारात् । साधनचतुष्टयस्य शमदमवैराग्यमुमुक्षुत्वरूपस्य ज्ञानद्वारा भक्त्यु-
पयोगः 'शमदमाद्युपेतः स्या'दित्यादिसूत्रभाष्य उक्तत्वाच्च । तथा च वैराग्योत्कर्षः शृङ्गारप्रव-
र्तकानां न वैराग्यमात्रं 'उत्कर्षश्चापि वैराग्ये हरेरपि हरियदी'ति वेणुगीतकारिकायाः । 'कामादीतरत्र
तत्र चायतनादिभ्य' इति सूत्रे भाष्ये कामस्याविहितभक्तित्वेन निरूपणात् । रसाभासभावाभासा
यद्यपि भावं निरूप्य रसं निरूप्य क्रमप्राप्तास्तदाभासा लक्षणीया इति वदन्ति सरस्वतीतीर्थास्तथापि
अनुभवसाचिव्यात्पोषकाः क्रमप्राप्ता इत्युक्तं सम्मताविति ।
पुष्टस्य तस्य रसस्यावस्थाद्वयं पोष्यत्वायाप्याहुः । संयोग इत्यादि ।
संयोगो विरहश्चापि तस्यावस्थाद्वयं मतम् ॥ ५ ॥