सामग्री पर जाएँ
सर्वकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

कॉपीराइट समस्या बताएँ

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 2522, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 2522

'तं गोरजश्छुरितकुन्तले'त्यत्र धर्मार्थकाममोक्षाणां चतुर्णां धर्मादिसहितानामेव मोक्ष इत्येकवाक्यतेति
शृङ्गाररसो निरूपित इति च सुबोधिनीटिप्पण्यां स्फुटेयं 'अतः शृङ्गारस्वरूपं निरूप्यत' इति
प्रतिज्ञा । श्रुतिरूपाणां व्रजसीमन्तिनीनामत्र शृङ्गार एव मनोरथान्तप्राप्तेः 'मनोरथान्तं श्रुतयो यया
ययु'रिति वाक्यात् । आनन्दमात्रं पुराविदामिदं रूपमत एव वेणुगीतसुबोधिन्यां 'कृष्णं निरीक्ष्ये'त्यत्र
'तत्क्वणितवेणुविचित्रगीत'मित्यस्य व्याख्याने गीतं शृङ्गारान्तर्गतमिति विचित्रमिति विशेषणेन
शृङ्गार एव सर्वरसा इति नाट्यशास्त्रसिद्धान्त इति विचित्रमद्भुतरसवत् । किञ्च अन्यस्य रसत्वमेव
न मन्यन्ते यथा महान्तः सुवर्णाभरणान्येवोपकरणानि कुर्वन्तीति सुबोधिन्यां भावनोक्ताः सर्वत्र
शृङ्गारभावना । तया हि
श्रीगोवर्धनाधीशेषु भक्तमनोरथेन तामसप्रकरणीयफलप्रकरणोक्तपूर्णानन्दैश्वर्यादयः प्रधाने
भावेल्लिमाः 'उत्क्षिप्तहस्तः पुरुषो भक्तमाकारयत्युते'ति भक्तमनोरथपूरकं रूपमालम्बनविभावः शृङ्गारे
शान्तरसे च । ननु कुतः शृङ्गार इति बृहदारण्यके ज्योतिर्ब्राह्मणे तद्भाष्येऽसौ'तदात्मकाममाप्तकाममका-
मयरूपं तद्यथा प्रियया स्त्रिया सम्परिष्वक्तो न बाह्यं किञ्चन वेद नान्तरमेवमेवायँशारीर आत्मा
प्राज्ञेनात्मना सम्परिष्वक्तो न बाह्यं किञ्चन वेद नान्तर'मिति अत्र प्रियस्त्रीदृष्टान्तशारीरात्मप्राज्ञरूपजीव-
दार्ष्टान्तिकयोर्दर्शनात् । इदं प्रथमाध्यायतृतीयपादान्ते 'सुषुप्त्युत्क्रान्त्योर्भेदेने'त्यधिकरण उक्तम् ।
आचार्यमार्गे तु अन्यत्सर्वं भक्तमनोरथहेतुकं भक्तिरसरूपम् । तत्रालम्बनमुक्तम् । उद्दीपनविभावस्त-
च्छेष्टा, अनुभावः भगवता समं संलापादिः, स च भगवच्छय्यादिरूपशेषः पीठस्थः यद्यपि चतुर्भिर्व्यूहै-
रेकोत्रालम्बनविभावस्तथापि रामः........पि कृष्णावतारे स दृष्टः अनिष्टशङ्कायाः रसान्तःपातिनो
व्यभिचारिभावाः हरिदासनिष्ठाः नृसिंहोऽक्षरावतारः योऽदृश्यत्वाद्यधिकरणे पुरुषोत्तमाधिकरणं
तत्रोक्ताभिन्नाक्षरचरणारविन्दौ मुक्तभक्तौ मयूरो, मुक्तजीवः शुकश्च भक्तमुक्तौ त्रयोपि व्रजभक्तानां
पुंभावगताः । मेषश्चेष्टारूपः कालः महिषी........क्षे उपवेदादि ऋग्रूपगोभ्यः............पश्चा'द्गजा गावो
महिष्यश्चे'त्यत्र कीर्तनाद् द्वितीयः शेषश्च, भावनीया गावः ऋचः शङ्खश्चेद्यमुनाजित्तयान्तःकरणीया इति ।
श्रीनवनीतप्रियजित्सु गुप्तरसप्रकारो बालभाव एव । निरावृतस्वरूपं रसाधायकमिति
कटिवस्त्राणि नो धारणीयानि । वासुदेवव्यूहकार्यस्य मनोरथान्तदान आवश्यकत्वात् । 'जानीत
परमं तत्त्वं यशोदोत्सङ्गलालितम् । तदन्यदिति ये प्राहुरासुरांस्तानहो बुधा' इत्यादि ।
श्रीमथुरेशजित्सु भुजाचतुष्टयं स्वानन्ददानं वासुदेवव्यूहस्य सायुज्यदातुः सत्त्वात्तत्क्रीडा
पूर्वोक्तश्च व्यूहस्तत्सहिता गोपीजनानां भक्तस्वं.............................................गोचारणं कृत्वा
व्रजे यदागच्छति तदा भक्तानां स्वमुखामृतपानं कारयति यत्तत् । द्वितीया स्वानन्ददाने प्रति-
बन्धनिवारणं विरहजतापसोपशमनम् । तृतीया स्वसेवाकारणं मार्गे सन्ध्याभोगस्य स्वीकरणम् ।
चतुर्थी आधिदैविकभावस्य परम्परोद्बोधनं वने चतुर्दशरसानां या लीला कृता सा, प्रत्येकरसानां
स्थायिभावान् प्रकटीकृत्य व्रजभक्तासुद्बोधितेति ।
श्रीमद्विठ्ठलनाथजित्सु तामसप्रकरणीयफलप्रकरणद्वितीयाध्याय्योक्तलीला प्रसिद्धा तत्र वीर्योक्ति
मोक्षप्रसङ्गाद्वासुदेवप्रसङ्गात् वासुदेवचरित्रं बोध्यम् ।
श्रीद्वारकानाथजित्सु
'भूवह्नीसंज्ञ्यादौ सहचरि निकोरे वर्जयित्वा स्वकीयाम्
पश्चादागत्य तूष्णीमय नयनयुगं सन्प्रियाया निमील्य ।
2384