सामग्री पर जाएँ
सर्वकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

कॉपीराइट समस्या बताएँ

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 2516, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 2516

अन्यच्च मथुरां गत्वा वीर्यरूपेण भक्ताधिमर्दनं कृत्वा सान्दीपिनिगुरुं गोपिकाश्च पुत्रद्वारा अमर-
गीतोक्तज्ञानद्वारा च सान्त्वयित्वा पुनर्मथुरां गत इत्यर्थः । तत्रापि वीर्यरूपेण भक्ताधिमर्द्दनातिरिक्त-
लीलाकरणाद्वीर्यरूपेण मथुरां गत्वेत्यादि सङ्गतं न भवति यद्यपि तथापि 'ह्येकं रूपं रसात्पृथ'गिति
नैयायिकानां सामानाधिकरण्येन रूपे गुणे एकत्वसङ्ख्यया तथा पृथक्त्वरूपो गुणो यथा तथा वैराग्यादिना
भक्ताधिमर्द्दनातिरिक्तं सर्वमुपपद्यताम् । वीर्यलक्षणम् । 'वीर्यं मे दुश्चरं तप' इति वाक्यात्तपः ।
तद्विविधम् । 'बुद्धिवीर्यं क्रियावीर्यं क्रिया च द्विविधा मते'त्यस्यां कारिकायां बुद्धिवीर्यं बुद्धिरूप-
तत्त्वान्तरकृतिः सा सुभद्राप्रसङ्गे लोकदोषेण सर्वदा कन्यात्वेनैव स्थितेरुक्तत्वादुत्पन्नायाः सुभद्राया-
श्चौर्यायार्जुनाय दान