सामग्री पर जाएँ
सर्वकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

कॉपीराइट समस्या बताएँ

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 2510, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 2510

सर्वे संशयास्तु उक्तप्रकारं प्रधान्यप्रकारं वा सर्वात्मभावः साधनं ज्ञानादि वा शब्दप्रत्यक्षानुमानोप-
मानानि प्रमाणं 'वेदाः श्रीकृष्णवाक्यानि व्याससूत्राणि चैव हि, समाधिभाषा व्यासस्य' प्रमाणं वा
फलं वा भगवान् वाऽविद्यानिवृत्तिर्वा । आचार्या इमेऽन्ये वात्मानः । इति स्वरूपवर्णनम् ।
स्वरूपस्वरूपं प्रस्तोतुं मङ्गलं स्मरन्ति । जयतीत्यादिना ।
'जयत्याचार्यपादाब्जररेणुर्यल्लाभतः स्वयम् ।
तुरीयं पुरुषार्थं हि प्रीतः कृष्णः प्रयच्छति ॥ १ ॥
यद्रेणुलाभतः यो यस्य चरणरेणुं वाञ्छति स तद्भवति तद्योग्यो वा भवतीति वा । तथा च
यथाऽऽचार्येभ्यः पुष्टिमर्यादाभक्तिमार्गीयमोक्षं प्रयच्छति मोक्षदातृत्वेऽपि प्रीतस्तत्रापि कृष्णः सदानन्दो
न तु विभूतिरूपस्तत्रापि स्वयं न तु धर्मरूपेण तथास्मभ्यमपि मोक्षं दास्यति प्रीतः कृष्णः स्वयम् ।
किञ्च ते यथाऽदेयदानदक्षास्तथा वयमपि भविष्याम इति भावः । स्पष्टं चेदम् 'आसामहो चरणरेणु-
जुषामहं स्या'मित्यत्र सुबोधिन्याम् । 'अनुव्रजाम्यहं नित्यं पूयेयेत्यंघ्रिरेणुभि'रित्येकादशचतुर्दशे पापा-
भावे चरणरेणुः कारणमुक्तमेवं च चरणरेणुलाभतः पापाभावः ततः प्रीत इति मर्यादोक्ता। पापाभावस्य
भक्तिकारणत्वात् ।
संस्कृतदेहे तुरीयपुरुषार्थसिद्धयर्थं साधनमाहुः शब्देत्यादि ।
शब्दार्थयोर्नित्यता तदुक्तिरात्यन्तिकी हरौ ।
उदेति श्रीवल्लभतिनामोच्चारणमात्रतः ॥ २ ॥
श्रीवल्लभतिनाम प्रतिपादकं श्रीश्च श्रीश्च श्रीश्च श्रीश्च श्रीश्च श्रीश्च श्रियः पद । पदश्रीयुक्ताः
वल्लभाः श्रीवल्लभास्तेषां नाम श्रीवल्लभेतिनाम प्रतिपादकं प्रतिपाद्यंच प्रियत्वरूपश्रीवल्लभत्वविशि-
ष्टम् । एतयोः शब्दार्थयोर्नित्यता तदुच्चारणमात्रतोऽनियमः सर्वासा'मिति सूत्रप्रमाणेनात्यन्तिकी
१भक्तिरुदेति । केति चेन्न हरौ । हरिर्मनो यस्य 'मनसो ह्येव खल्विमानि भूतानि जायन्त' इति प्रथम-
चरणं प्रतिमारूपमपीति तत्रेत्यर्थः । यद्वा जिज्ञासाधिकरणोक्तनिर्गुणब्रह्मणः सकाशाज्जगदिति प्रथमचरणं
प्रतिमारूपमपीति तत्रेत्यर्थः । मानसीसेवारूपाऽऽत्यन्तिकी भक्तिः । तथा च पञ्चाभिविद्यासंस्कृतदेहेभ्य इव
चरणरेणुसंस्कृतदेहेभ्यः आत्यन्तिक्या भक्त्या तुरीयं पुरुषार्थं स्वयं प्रयच्छतीत्युक्तम् ।
तुरीयं पुरुषार्थं स्वयमुक्तं प्रपञ्चयामासुः आनन्देत्यादिना ।
'आनन्दमयतानन्दसन्दोहो यत्प्रवेशतः ।
आनन्दरूपे भवति स वै श्रीवल्लभः प्रभुः ॥ ३ ॥
यद् येभ्यः उक्तगुरुपसत्यादिसुखद्वाराऽऽनन्दमयता जीवानां भवति 'आनन्दरूपे प्रवेशतः
आनन्दस सन्दोहः समूहो भवति जीवीयसच्चिदानन्देष्वानन्दरूपे भवति स श्रीवल्लभः प्रभुः
समर्थ इत्यर्थः ।
प्रभु साकारव्यापकं निरूप्य तद्रूपं निरूपयाम्बभूवुः सिद्धिवेत्यादिना ।
सिद्धिदा यादृशी प्रोक्ता जीवानां सेवना कृता ।
तादृशीं स्वीयशिक्षार्थं दर्शयामास वाक्पतिः ॥ ४ ॥
सिद्धिदा एकादशपञ्चदशाध्याये प्रोक्ता । न चैकोनत्रिंशाध्यायोक्तेति कुतो नोक्तमिति
शङ्क्यम् । भाष्ये गोपाळतापनीयश्रुतिप्रोल्लेखा 'द्भक्तिरस्य भजनमि'ति श्रुत्युक्तां मुख्यां ग्रहीतुं सिद्धिदे-
१. उत्पद्यते । २. आचार्येभ्यः ।