सामग्री पर जाएँ
सर्वकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

कॉपीराइट समस्या बताएँ

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 2494, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 2494

सर्वस्यापि भगवान् बहिरपि भवति व्यापकत्वात्, अन्तरपि भवति सर्वान्तरत्वात्, चकारात् स्वरूप-
मपि । किञ्च जगतो य एतावान्, यतो जायते गच्छति चेति जगत्, यदि भगवानेतावन्न
स्यात् कथं जगद् भवेत् ? पूर्वभावाभावे न भवेत् परभावाभावे न गच्छेत्, जगतश्चेद् भगवान् बहिर्न
भवेद् जगति गच्छति गच्छेद, यदि सर्वान्तरो न भवेज् जगदिति विशिष्टं सर्वप्रतीतिसिद्धं न भवेत्,
अन्तःस्थितभगवद्धर्मैरेव जगतो विवक्षितधर्मवत्त्वात् । किञ्च यो जगत्, न हि स्वात्मना स्वयं
बद्धो भवति, तथा सति बन्धकानां वैयर्थ्यापत्तेः । किञ्च जगन्मयोयं सर्वमेव जगद् व्याप्य
तिष्ठति, एतदाज्ञयैव जगत् कार्यं करोति, ततः कथमयं स्वबन्धने जगत् प्रेरयेत् ? अतो न केनापि
प्रकारेण भगवतो बन्धनमस्तीति निश्चिन्ता भक्ताः ॥ १३ ॥ तादृशं योन्यथा विचारयति स
निष्फलप्रयासो भवतीति तां दूषयन्निव तस्याप्यज्ञानमाह तमिति, तं पुराणपुरुषोत्तममात्मजं स्वशरी-
राजातं मत्वा दाना बबन्धेतिसम्बन्धः । देहस्तु प्राकृतस्तस्या इति तज्जातः सुतरां प्राकृतो भवति ।
ननु क्वचिन् महान्तोपि पुत्रा जायन्ते देवादयोपि ततो लोके कारणवैलक्षण्यस्यापि दृष्टत्वात् कथमात्म-
जत्वे तथा कर्तुं शक्यत इति चेत् तत्राहाव्यक्तमिति, न केनाप्यंशेन व्यक्तं, ये हि महान्तो
भवन्ति ते स्वधर्मान् प्रकटीकुर्वन्ति यथा भरतादयः, भगवान्स्तु तथा न करोतीति
प्राकृतबुद्धिस्तेषां दृढा, मध्यमावस्थानामेव तथा करणं न तु परमकाष्ठां गतस्य । किञ्च यदि गुप्त एव
संस्तूष्णीं तिष्ठेत् तथापि सन्देहः सादन्यवाक्येन वा माहात्म्यं जानीयुः, प्रत्युत भगवान् विपरीत-
धर्मान् बोधयत्यतः कथं प्रतीतिरित्याह मर्त्यलिङ्गमिविति, मर्त्यस्यात्यन्तप्राकृतस्य लिङ्गानि
यस्मिन्निति, तस्यैव स्वरूपं गुणांश्चेष्टां च प्रदर्शयतीत्यर्थः । ननु तथाप्यत्यन्ताभिज्ञा यथा नटं परिचि-
न्वन्ति तथा सर्वविलक्षणानन्तगुणवत्तादानन्दमयत्वाच्च कथं न ज्ञायत इत्याशङ्कयाहाधोक्षजमिति,
अधोक्षजं ज्ञानं यस्मादिति, न हि भगवान् गुणा वा कस्यचिदपि चक्षुर्गोचरा भवन्ति, इच्छा तु
नास्तीत्यवगम्यते विरुद्धप्रदर्शनात् । किञ्चेयं च यशोदा गोपिकातिप्राकृतरूपा, अतोन्भिज्ञा कथं
जानीयात् ? उलूखलोपरि पादं दत्त्वा भगवान् क्रीडति, अग्रेञ्च नाभिर्भवति, अतो
भगवान् गोकुलस्थितमुलूखलं स्वाश्रयत्वेन ज्ञापयितुमत्र बन्धनं कारितवान्
गोपिकायास्तु बुद्धिर्यान्यत्र न गच्छतीति । दाम पशूनां बन्धकं, ननूलूखलदामहस्ताधिष्ठितेदेवानां
कथं तूष्णीम्भावः ? तत्राह प्राकृतं यथेति, तेषामपि बुद्धिर्भगवता तथा सम्पादितेति ॥ १४ ॥
अयं देहाकारेण भासमान एव भगवान् सच्चिदानन्दरूप इति गुणोपसंहारन्यायेन
“न चान्तर्न बहिर्यस्ये”त्यादिधर्मा अस्यैवेति ज्ञापयितुं बन्धनेप्युपायं वदन् भगवान्
साम्बद्धो जात इत्याह तदामेति, भगवता स्वस्मिन् दोषद्वयं प्रदर्शितं तत्पुत्रत्वमपरा-
धश्च, तदा रज्जुरन्तर्बहिःस्थितं भगवन्तं तिरोहितं मत्वा वेष्टनं कृतवती स्वयं
बहिःस्थितान्तःस्थितस्य भगवतः, तदाह तद्दाम बध्यमानस्येति, अन्यथा बहिरपि
रज्जुर्न भवेद् वेष्टकमपि न भवेत् । तथापि परितो वेष्टनरूपा न जाता, पूर्वापरयोर्भ-
गवत एव सत्त्वात्, अतो द्व्यङ्गुलं न्यूना जाता । लोकपरिमाणे प्रथमपरिमाणमङ्गुलिः, तन्न
प्रथमातिक्रमे कारणाभावादल्पवैलक्षण्ये महतो योजनायामाश्चर्यमपि भवतीति द्व्यङ्गुलोनमेवाभूत् ।
रज्ज्वाद्यन्तयोर्यो भगवान् स एवायं क्रोडीकृतः, न तु ततः केनापि धर्मेण भिन्न
इति ज्ञापयितुमेवमाह व्यापकत्वस्य दर्शनार्थमेव तिरोभावाद् रज्जुस्थूलतायामपि
नोदरस्थौल्यं, प्रतिबिम्यादौ तथोपलंम्भेः, अतो वैलक्षण्याज्ञानात् तेनान्यदपि दाम तावत्प्रमाणकं
सन्धौ योजितवती। चकाराद् विसदृशमपि ततोपि स्थूलम्। नन्बङ्गुलद्वये न्यूने किमिलेतावद् योजितवती?