अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2479, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ६२१
जानीत परमं तत्त्वं यशोदोत्सङ्गलालितम् ।
तदन्यदिति ये प्राहुरासुराँस्तानहो बुधाः ॥ १ ॥
नानामतध्वान्तविनाशनक्षमो
वेदान्तहृत्पद्मविकाशने पटुः ।
आविष्कृतोऽयं भुवि भाष्यभास्करो
मुधा बुधा धावत नान्यवर्त्मसु ॥ २ ॥
पुरन्दरमदोद्भवप्रचुरवृष्टिसम्पीडित-
स्वकीयवरगोकुलावनपरायणो लीलया ।
स्मितामृतसुवृष्टिभिः परिपुपोष तान् यो गिरिं
दधार च स एव हि श्रुतिशिरस्तु संराजते ॥ ३ ॥
भाष्यप्रकाशः ।
एवं सर्वं शास्त्रं व्याख्याय स्वीयशिक्षार्थं सङ्क्षेपेण तदर्थमुपदिशन्ति जानीतेत्यादि । तद-
न्यदिति । तत् परमं तत्त्वम् । अन्यत् यावद्धर्मशून्यम् ॥ १ ॥
भाष्यविभावनार्थमुपदिशन्ति नानेत्यादि ॥ २ ॥
अत्रोक्तस्य फलस्य भगवत्कृपाधीनत्वाद्वगवतः कृपालुत्वं स्वीयरक्षकत्वेन स्फुटीकुर्वन्ति
पुरन्दरेत्यादि । हिर्हेतौ ॥ ३ ॥
रश्मिः ।
शास्त्रमिति उपाङ्गमीमांसाशास्त्रम् । अवयवेष्वपि शास्त्रत्वमविरुद्धम् । षट् शास्त्राणि । सङ्क्षेपे-
णेति सन्दिग्धवाक्यानां मीमांसाविषयत्वाद्विस्तरे बुद्धिनिवेशाच्च सङ्क्षेपेण शास्त्रार्थम् । जानीतेत्यादीति ।
फलाध्याये प्रतिपादितं सन्दिग्धफलमुपदिशन्ति आज्ञापयन्ति यथा स्वमार्गीयः स्वार्थान्न नश्येत् ।
आचार्याज्ञोलङ्घनं महापराध इति । तत् परमं तत्त्वम् । अन्यत् यशोदोत्सङ्गलालितादन्यत् भिन्नं
यावद्धर्मशून्यम् । हे बुधा आसुरान् तामसान् अभिन्ने भिन्नत्वबुद्धीन् तान् जानीतेत्युपदेशः ॥१॥
नानेत्यादीति । नानामतानि अन्यभाष्याणि ज्ञेयानि । नानामतैर्ध्वान्तः सूत्रार्थप्रकाशस्तस्य विनाशने
क्षमः समर्थः । भावे ल्युट् विनाशन इत्यत्र, क्षम इत्यत्र पचाद्यच् । वेदान्तेति । उपनिष-
त्सिद्धान्तविकाशने । भाष्येति अणुभाष्यभास्करः । नामैकदेशग्रहणम् । भास्करपदेन ब्रह्मज्ञाने-
धिकारि अणुभाष्यमिति द्योतितम् । धावतेति । भाष्यविभावनार्थमुपदेशः आज्ञा । फलानन्तरं भाष्य-
विभावनोक्त्या ज्ञापयन्ति । आत्मानन्दसमुद्रस्थं कृष्णमेव भाष्येण विचिन्तयेदिति । तदुक्तं सिद्धा-
न्तमुक्तावल्यां 'तस्माच्छ्रीकृष्णमार्गस्थो विमुक्तः सर्वलोकतः । आत्मानन्द समुद्रस्थं कृष्णमेव विचिन्तये'-
दिति ॥ २॥ भगवत्कृपेति । कृपा प्रथमचतुर्थचरणे 'सूक्ष्मं तु तदर्हत्वा'दिति सूत्रभाष्ये महतः परं
निवेशिता । 'कृपाविष्टः साधनं भगवान् तत्कृपा 'तदन्तरप्रतिपत्ता'वित्यायुक्तसाधने ब्रह्मात्मके परम्परया
वर्तत इत्याशयेन कृपालुत्वम् । भगवत्कृपया भाष्यं कृतमिति । 'इति भारतमाख्यानं कृपया मुनिना
कृत'मिति न्यायेन । 'दत्त्वाज्ञां च कृपावलोकनपटु'रिति प्रथमसुबोधिन्याम् । पुष्टिमार्गीयत्वेन
शेषानाहुः स्वीयरक्षकत्वेनेति । गिरिं दधारेति पदतात्पर्यार्थः । पदद्वयार्थानुसन्धाने
बीजमग्रे वाच्यम् । पुरन्दरेत्यादीति । स्मितामृतेति स्मितं श्रीरामचन्द्रः हासरूपत्