सामग्री पर जाएँ
सर्वकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

कॉपीराइट समस्या बताएँ

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 2471, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 2471

नीयम्। 'न तत्समश्चाभ्यधिकश्च दृश्यत' इति श्रुत्या तादृशस्य फलस्य ततो व्यभिचारात् । 'यथा
क्रतु'रिति पुरुषविशेषणबोधके पदे प्रकारांशे पुरुषाधिकारस्यापि निविष्टत्वात् समत्वाद्याकाङ्क्षायाश्च,
'तेनार्हति ब्रह्मणा स्पर्धितुं क' इति, 'उषति ह वै स तं योऽस्मात् पूर्वो बुभूषती'ति श्रुतिभ्यां
निषिद्धत्वेन तादृशोपासनेऽधिकारस्य निवृत्तेश्च । न चायमेव समाधिः शाङ्करेऽपि मतेऽस्त्विति
वाच्यम् । तन्मते निर्गुणस्य रूपस्य सर्वाभ्यधिकत्वेन सगुणेऽभ्यधिकराहित्यभावेनाधिकसाहित्ये
प्राप्ते उक्तरीत्या समसाहित्यस्यापि वक्तुं शक्यतया तद्राहित्यस्यापि दुरुपपादत्वेनैतच्छ्रुतिविषयता-
यास्तत्र वक्तुमशक्यत्वात्। समाभ्यधिकनिषेधावधिकतया निर्गुणबोधकत्वे च सगुणे समसाहित्यस्यै-
देकं वाक्यं साकाङ्क्षं चेद्विभागे स्या'दिति द्वितीयाध्यायसूत्रे पूर्वमीमांसायां वाक्यलक्षणम् । 'अथ
खलु क्रतुमयः पुरुषो यथा क्रतुरस्मिन् लोके पुरुषो भवति तथेतः प्रेत्य भवती'ति द्वितीयं वाक्यम् ।
'स क्रतुं कुर्वीते'ति तृतीयम् । अग्रे 'मनोमयः प्राणशरीर' इत्यादि क्रतुस्वरूपम् । तत्र मनोमय-
वाक्योक्तोपासकस्येत्यर्थः । तथात्वापत्तयेति ब्रह्मणो मननोपदेशे मननरूपोपासनायां सर्वकर्मेति-
विशेषणस्यापि सत्त्वेन जीवन्मुक्तदशायां संशयाभावरूपे फले स्वातन्त्र्यापत्त्या इत्यर्थः । जगद्व्यापारेति
जगद्व्यापारो जगज्जन्मादिकर्तृत्वलक्षणस्तत्सापत्तिः । स्वातन्त्र्ये निरङ्कुशजगत्कर्तृत्वस्य नियतत्वात् ।
'स्वतन्त्रः कर्ते'ति पाणिनीयसूत्रादित्यर्थः । तादृशस्येति जगद्व्यापाररहितस्य 'यस्य स्यादद्धा न
विचिकित्सास्ति' इति तत्रोक्तश्रुत्युक्तसंशयाभावरूपस्य फलस्य । तत इति समाभ्यधिकजगद्व्या-
पारसहितप्रपञ्चाद्व्यभिचारात् । व्यभिचारोत्र समाभ्यधिकफलवत्त्वाभावाभावस्य । जगद्व्यापारसहित-
प्रपञ्चत्वासमानाधिकरण्यं व्यभिचारस्तादृशफले । 'यथा क्रतुरस्मिंलोके पुरुषो भवति तथेतः
प्रेत्ये'ति छान्दोग्ये । प्रकारांश इति थाल् प्रत्ययार्थः प्रकारस्तदंशे । अधिकारस्यापि प्रकारत्वान्
निविष्टत्वं तस्मात् । समत्वादीति । आदिनाधिकत्वम् । स्पर्धितुमिति स्पर्ध सङ्घर्षे ।
सङ्घर्षः पराभिवेच्छा पराभवेष्टुम् । क इति न कोपीति । समत्वाकाङ्क्षाया निषिद्धत्वम् ।
उषति उष् दाहे दहति । स आत्मा । बुभूषतीति भवितुमिच्छतीति बुभूषति भू सत्ता-
यामिच्छार्थे सन् सन् द्वित्वम् । अनयाधिक्याकाङ्क्षाया निषिद्धत्वम् । आधिक्यं पूर्वत्वम् ।
'मद्भक्तपूजाभ्यधिके'त्यत्राधिक्यं प्राथम्यमिति व्याख्यानात् । तादृशेति मनोमयवाक्योक्ते ब्रह्मणो
मननोपदेशे मननरूपोपासने । अधिकारस्येति 'सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपा-
सीते'त्युक्ते सर्वजगतो ब्रह्मत्वेनोपासने स्पष्टनिरवग्रहोपासनाधिकारस्य । अयमेव समाधिरिति
यथाक्रतुरिति पुरुषविशेषणबोधके पदे प्रकारांशे पुरुषाधिकारस्यापि निवृत्तत्वान्निर्गुणफलाप्राप्तिः
सगुणोपासकस्य सावग्रहाणिमाद्यैश्वर्यप्राप्तिश्च न निरवग्रहैश्वर्यप्राप्तिरिति समाधिरेव । शाङ्करेपि मते
सगुणोपासकस्य न निर्गुणप्राप्तिः, सगुणप्राप्तावपि न निरवग्रहाणिमाद्यैश्वर्यप्राप्तिः किन्तु सावग्रहाणि-
माद्यैश्वर्यप्राप्तिरित्यस्मिन्मते । उक्तरीत्येति अव्यवहितोक्तरीत्या । तथाहि । निर्गुणस्य रूपस्य
सर्वांसाम्येन सगुणे साम्यराहित्याभावेन समसाहित्ये प्राप्ते इति रीत्या । तद्राहित्यस्येति समाभ्य-
धिकराहित्यस्य । एतच्छ्रुतीति 'न तत्समश्चाभ्यधिकश्चे'ति श्रुतिविषयतायाः । तत्र शाङ्करे मते ।
समाभ्यधिकेति समाभ्यधिकयोर्निषेधस्तत्सावधिकतया श्रुतेर्निर्गुणस्य बोधकत्वे च । समसा-
हित्यस्येति श्रुतौ तदित्यव्ययं लुप्तपञ्चमीकम्, निर्गुणाद् अवधेः समाभ्यधिकनिषेधेऽधिकधर्मी-
देर्मायिकत्वेनाधिक्यसाहित्याप्राप्त्या समसाहित्यस्यैवेत्यर्थः । विशिष्टं शुद्धानातिरिच्यत इति नैया-