सामग्री पर जाएँ
सर्वकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

कॉपीराइट समस्या बताएँ

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 2455, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 2455

निषिद्धः, तत्राप्यन्यविषयकः, तेन भगवद्विषयकः स सिद्धो भवतीति जग-
द्व्यापारराहित्यं सिद्धम् । तत्र तेन भगवत एव स्वतन्त्रफलत्वमुक्तं भवति । नहि
सुखस्यान्यत् प्रयोजनमस्ति ॥ १७ ॥
प्रत्यक्षोपदेशादिति चेन्नाधिकारिकमण्डलस्थोक्तेः ॥ १८ ॥
नन्वेतत्प्रकरण एव छान्दोग्ये पठ्यते 'सर्वं ह पश्यती'ति सर्वविषयक-

भाष्यप्रकाशः।
भ्यामुक्तः सः । तथा चास्यां श्रुतौ लौकिकव्यापारराहित्यस्य सिद्धत्वात्तत्र तथा व्याख्याने ना-
ग्रहवाद इत्यर्थः । अत्र यत्पारिशेष्यात्सिद्धं तस्य फलमाहुः तेनेत्यादि । तत्र हेतुः न हीत्यादि ।
न हि भूमविद्यायां प्रतिपाद्यमानस्य भूमरूपस्य सुखस्य फलत्वातिरिक्तमन्यत् प्रयोजनं कथन-
स्यास्ति तस्मात् तथेत्यर्थः ।
यत्तु भाष्यान्तरेऽस्मिन् सूत्रे ब्रह्मसायुज्यं ब्रह्म