अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2436, कुल 2600 में से
संदर्भ में पढ़ें१८० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ४ पा० ४ अ० २ सू० ११.
अभावं बादरिराह ह्येवम् ॥ १० ॥
मुक्तोऽपि जीवः पुष्टिमार्गेऽङ्गीकृतो भगवद्दत्तं विग्रहं प्राप्य भजनानन्दं
प्राप्नोतीति सिद्धम् । अत्र प्रत्यवतिष्ठते । बादरिराचार्यो मुक्तस्य देहाद्यभावं
मनुते । तत्र हेतुराह ह्येवमिति । ब्रह्मविदो हि मुक्तिरुच्यते । 'यत्र हि द्वैतमिव
भवति तदितर इतरं पश्यती'त्याद्युक्त्वा, 'यत्र त्वस्य सर्वमात्मैवाभूत् तत् केन
कं पश्ये'दित्यादिना द्वितीयज्ञाननिषेधमाह ब्रह्मविदः श्रुतिः । तथा च तस्य
कामभोगवार्ता दूरतरेति, तदाक्षेप्यदेहोऽपि तथा ॥ १० ॥
भावं जैमिनिर्विकल्पामननात् ॥ ११ ॥
जैमिनिराचार्यस्तु मुक्तस्य पुंसो देहादेर्भावं सत्तां मन्यते । तत्र हेतुः
विकल्पेत्यादि । 'ब्रह्मविदाप्नोति पर'मिति श्रुत्या ब्रह्मज्ञानस्य तत्प्राप्तिसाधनत्व-
मुच्यते । 'नायमात्मे'ति श्रुत्या तु वरणमात्रप्राप्यत्वम् । 'सोऽश्नुत' इत्यादिना च
परप्राप्त्युपन्यासः क्रियते । 'इहैव समवनीयन्ते' 'ब्रह्मैव सन् ब्रह्माऽप्येती'ति च
पठ्यते । एवं सति मिथो विरोधे तद्भावाद्योक्तव्याख्यानरीत्या ज्ञानमार्गीयस्य
ब्रह्मज्ञानेनाक्षरब्रह्मप्राप्तिः, पुष्टिमार्गीयभक्तस्य तु 'सोऽश्नुत' इत्यनेनोक्ता पर-
प्राप्तिरिति व्यवस्थितविकल्प एव श्रुत्यभिमत इति ज्ञायते । तेन, 'नायमात्मे'ति
भाष्यप्रकाशः ।
अभावं बादरिराह ह्येवम् ॥ १० ॥ अत्रेत्यादि । असिद्धयर्थं निःसम्भोगनिरानन्दमु-
क्तिवादी प्रत्यवतिष्ठत इत्यर्थः । तत्र हेतुः । बादरिरित्यादि । शेषं स्फुटम् ॥ १० ॥
एतन्मते कामाशनबोधकश्रुत्यादयः पूर्वपक्षाविश्रान्ताः जैमिनिस्तु पूर्वपक्षाविश्रान्तौ
मानाभावात् ब्रह्मविद्वृत्तान्तकथनस्योभयत्र तुल्यत्वान्मार्गभेदेनाधिकारिभेदमङ्गीकृत्योभय-
व्यवस्थामाह ।
भावं जैमिनिर्विकल्पामननात् ॥ ११ ॥ विकल्पामननादिति । विरुद्धाः कल्पाः
पक्षाः विकल्पाः श्रुतिषूच्यमानाः, तेषां आमननात् आसमन्तान्मननाद् विचारात् । तथा च
ज्ञानप्राप्यत्वविरुद्धं वरणैकलभ्यत्वं कामाशनविरुद्धञ्चाप्यय इति साधनयोः फलरूपयोश्च मिथो
विरुद्धत्वे सति तदभावायाधिकारिभेद आस्थेय इति ज्ञानमात्रात् साधनात् ब्रह्मभावे तत्र लयः,
रश्मिः ।
अभावं बादरिराह ह्येवम् ॥ १० ॥ निःसम्भोगेति । अर्थबलाच्छब्दोऽप्यन्यथा नेय
इति मतेदृशो भवति । भाष्ये । तथेति दूरतरः ॥ १० ॥
भावं जैमिनिर्विकल्पामननात् ॥ ११ ॥ एवं सतीति भाष्यं विवृण्वन्ति । इति
2298