सामग्री पर जाएँ
सर्वकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 2344, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 2344

८८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ४ पा० २ अ० ६ सू० १८.
रश्म्यनुसारि ॥ १८ ॥ (४-२-६)
'अथ या एता हृदयस्य नाड्यस्ताः पिङ्गलस्याणिम्नस्तिष्ठन्ति, शुक्लस्य
नीलस्य पीतस्य लोहितस्येत्यसौ वा आदित्यः पिङ्गल' इत्युपक्रम्य, अग्रे पठ्यते
'तमभित आसीना आहुर्जानासि मां जानासि मामिति । स यावदस्माच्छरी-
रादनुत्क्रान्तो भवति तावज्जानात्यथ यत्रैतदस्माच्छरीरादुत्क्रामत्यथैतैरेव रश्मिभि-
भाष्यप्रकाशः।
रश्म्यनुसारी ॥ १८ ॥ एवं ब्रह्माण्डमध्ये सद्योमुक्तस्य व्यवस्थामुक्त्वा क्रमेण मुच्य-
मानस्य व्यवस्थां वदतीत्याशयेन प्रासङ्गिकमेतत्साधिकरणस्य विषयादिकमाहुः अथ या एता
इत्यादि । श्रुतिस्तु छान्दोग्यस्थदहरविद्यायाम् ।
अर्थस्तु, यो हृदयपुण्डरीकगतयथोक्तगुणविशिष्टब्रह्मोपास