सामग्री पर जाएँ
सर्वकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 2312, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 2312

५६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ४ पा० २ अ० १ सू० १.
तत्रोत्तर एव पक्षः साधीयानिति भाति । तथा हि । यथा पूर्वं संसारिण
एव जीवस्य तदनुग्रहात् पूर्वावस्थापगमो मुक्त्यवस्था चोच्यते, तथात्रापि वक्तु-
मुचितत्वात् । 'न तस्मात् प्राणा उत्क्रामन्त्यत्रैव समवनीयन्त' इति श्रुतिस्तु
जीवस्य सायुज्यमुक्तिकाले तत्प्राणादीनामपि तथैवाह, अत एवाग्रे 'ब्रह्मैव
सन् ब्रह्माप्येती'त्युच्यते । पुष्टिमार्गीयस्योक्तमुक्त्यभावाज्ज्ञेयं तद्विषयिणीति
प्राप्ते प्रतिवदामः । ब्रह्मांशत्वेन जीवस्यानन्दात्मकत्वाञ्चिद्दोषस्वरूपत्वान्नित्यत्वाच्च
दोषाणां चागन्तुकत्वात्तदपगमे तस्य तथात्वमुचितम् । प्राणादयस्तु न तादृशा
इति तद्दृष्टान्तेनात्रापि तथात्वं न वक्तुं शक्यम् । 'देहेन्द्रियासुहीनानां वैकुण्ठ-
भाष्यप्रकाशः।
[L