अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 225, कुल 2600 में से
संदर्भ में पढ़ें१३८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० २ सू० २
संदेहवारकत्वाच्छास्त्रस्यापि तदङ्गत्वमिति ॥ २ ॥
इति प्रथमाध्याये प्रथमपादे द्वितीयं जन्माद्यधिकरणम् ॥ २ ॥
भाष्यप्रकाशः।
तन्निर्देशो, न तु करणत्वेनेत्यर्थः । एतदेवोपकारकत्वं स्मृत्यादिष्वपीत्यतिदिशन्नाहुः संदेहेत्यादि ।
तदङ्गत्वमिति मननाङ्गत्वम् । अत एव, 'स्मृतेश्च' इत्यादि सूत्राणि ।
'इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् ।
बिभेत्यल्पश्रुताद्वेदो मामयं चालयिष्यति' ॥
॥ इत्यादिवाक्यानि च । एतस्यैव निष्कर्षो निबन्धे उक्तः ।
'वेदाः श्रीकृष्णवाक्यानि व्याससूत्राणि चैव हि ।
समाधिभाषा व्यासस्य प्रमाणं तच्चतुष्टयम् ।
उत्तरं पूर्वसंदेहवारकं परिकीर्तितम्' ॥
इति । तथाच संदेहवारकतया कल्पसूत्रवद् व्याख्यानरूपत्वान्नानुवादकत्वमित्यर्थः ।
कारिकार्थस्तु तद्विवरणग्रन्थाद् बोध्यः ।
इति द्वितीयं जन्माद्यधिकरणम् ॥ २ ॥
एवं जिज्ञास्यस्य ब्रह्मणो लक्षणं तत्र प्रमाणं च निर्णीय तस्य किं ब्रह्मणः कारणतामात्रे तात्प-
र्यमुत तद्विशेषविशिष्टायां तस्यामिति संशयमनपनेतुमग्रिमधिकरणमित्याशयेन तदवतारयन्ति
रश्मिः।
त्त्वादेव युक्तिनिर्देश इत्यर्थः । स्मृत्यादिष्विति । आदिशब्देन मीमांसा । तदङ्गत्वमिति शास्त्रस्य
मीमांसारूपस्यापि श्रवणाङ्गत्वं भाष्यात् । अपिशब्देनेतिहासपुराणे । तत्पक्षे तदङ्गत्वपदार्थमाहुः मनना-
ङ्गत्वमिति । स्मृतेश्चेति इमानि सूत्राणि द्वितीयपादे वक्ष्यन्ते, स्मृतिर्मीमांसारूपाणि । चैव हीति
चकारेण जैमिनिस्मृतिः । संदेहेत्यादिभाष्यनिष्कर्षमाहुः तथा चेत्यादि । नानुवादकत्वमिति स्मृति-
शास्त्रस्य जन्मादिसूत्रस्य वा नानुमानोपष्टम्भकश्रुत्यर्थानुवादकत्वमित्यर्थः । तद्विवरणेत्यादि तत्वदीपा-
दावरणभङ्गेत्यर्थः । तत्र ननु चतुर्णां कोपयोगः एकेनैव चरितार्थत्वाल्लाभेत्याशङ्क्याहुः उत्तरमित्यादि
उत्तरोत्तरं पूर्वपूर्वस्य संदेहवारकं प्रकर्षेण कीर्तितम् । यथा 'अपाणिपादो जवनो ग्रहीता' इत्यत्र किं
प्राकृतपाणिरहितं ब्रह्म आहोस्वित् सामान्यनिषेध इति संदेहे सर्वतःपाणिपादान्तमित्यादि गीतावाक्यं
निर्णायकं, तथा गीतायां 'नित्यः सर्वगतः स्थाणुः' 'ममैवांशो जीवलोके' इत्यादिषु संदेहे सूत्रैर्निर्णयः ।
'उत्क्रान्तिगत्यागतीनाम्' इत्यादिभिः । तथा 'जन्माद्यस्य यतः' इति संदेहे 'अन्वयव्यतिरेकः' इति
भागवतेन, निर्णय इति तत्वदीपे । उत्क्रान्त्यादिसूत्रैरंशत्वनिर्णयः अन्वयव्यतिरेकत इति । श्रीभाग-
वतवाक्ययोः 'अन्वयव्यतिरेकाभ्यां यत्स्यात् सर्वत्र सर्वदा' 'समन्वयेन व्यतिरेकतश्च' इति द्वितीयैका-
दशस्थयोरर्थकथनम् । तथाचैतयोर्वाक्ययोर्जन्मादिसूत्रे शबलस्य ब्रह्मणो वा कार्यलक्षणमिति संदेहे
निर्णायकत्वमित्यावरणभङ्गे । 'जन्माद्यस्य यतोन्वयादितरतः' इति वाक्यमपि संगृहीतुं शक्यम् ।
तदुक्तं कौर्म्ये 'न च वेदादृते किंचिच्छास्त्रं ब्रह्माभिधायकम्' इति ।
॥ इति द्वितीयं जन्माद्यधिकरणम् ॥ २ ॥
प्रसङ्गसंगत्या हेतुतासंगत्या वाधिकरणमवतारयन्ति एवमित्यादि । तस्येति लक्षणस्येत्यर्थः ।
तद्विशेषेत्यादि तद्विशेषः समवायित्वनिमित्तत्वकर्तृत्वरूपस्तद्विशिष्टायां कारणतायामित्यर्थः ।
138