सामग्री पर जाएँ
सर्वकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 2228, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 2228

भाष्यप्रकाश-रश्मि-परिवृंहितम्। ४९९
स्वामिनः फलश्रुतेरित्यात्रेयः ॥ ४३ ॥
पुष्टिमार्गीयभक्तस्य विहितत्वाविज्ञानमप्रयोजकम् । तत्र हेतुः । तस्य
भक्तिमार्गस्वामिनः श्रीगोकुलेशादेव फलस्य श्रुतेः । अतो बहिर्गमनं न साधन-
त्वेनात्र कार्यमिति भावः । अत्र, 'यमेवैष वृणुत' इति श्रुतिरनुसन्धेया । एतदनु-
पदमेव पठ्यते 'नायमात्मा बलहीनेन लभ्य' इति । अत्र भगवद्वरणानन्तरमपि
जीवबलं कतमं, यदपेक्ष्य भगवल्लाभ इति जिज्ञासायां सर्वात्मभाव एव बल-
मिति निर्णीयते । तस्यैव मर्यादावलोपमर्दकत्वाद्वगवद्वशीकारहेतुत्वाच्च । ब्रजसी-
मन्तिनीनां प्रभुवचनातिक्रममपि कृत्वा स्वरूपपरिग्रहस्तन्मूलेनैव यत इत्यात्रेय
आचार्यो मनुते ।
भाष्यप्रकाशः।
चरेद्विधिगोचर' इत्यादिभिरेकादश