अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2207, कुल 2600 में से
संदर्भ में पढ़ें४७८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० ३ पा० ४ अ० १ सू० २४-
ख्यानपर एव, न त्वाख्यानान्तरपरोऽपि । प्रकरणस्य नियामकत्वात् । एवं सति,
यद्वा पारिप्लवाख्यकर्मप्रस्तावः, तदा विशेषविनियोग उक्तः । 'पारिप्लवमाचक्षी-
ते'ति । तत्र प्रथमेऽहनि 'मनुर्वैवस्वतो राजे'ति । द्वितीयेऽहनि 'इन्द्रो वैवस्वत'
इति । तृतीयेऽहनि 'यमो वैवस्वतो राजे'त्याख्यानविशेषा वाक्यशेषे विनि-
युज्यन्ते । आख्यानसामान्यपरत्वे त्वहोविशेष उपाख्यानविशेषविधानं न
स्यात् । अत एव पारिप्लवमित्येकवचनम्, अतो नाख्यानान्तरगन्धसम्बन्धोऽपि ।
प्रापकाभावात् ॥ २३ ॥
अत एव चाग्नीन्धनाद्यनपेक्षा ॥ २४ ॥
एवं 'पुरुषार्थोऽतः शब्दा'दित्युपक्रम्य ज्ञानस्य फलसाधने कर्माऽनपेक्षत्वमुप-
पाद्य तत्रैवोपपत्त्यन्तरमाह । यतो ज्ञानी ज्ञानेन स्वयमेव यज्ञात्मको जातः, अत
एव जरामर्याग्निहोत्रेऽग्निस्तदिन्धनं समिदादि, तदाद्य आज्याद्यस्तेषामन-
पेक्षोक्ता । श्रुतौ तैत्तिरीयके पठ्यते । 'तस्यैवं विदुषो यज्ञस्यात्मा यजमानः श्रद्धा
भाष्यप्रकाशः।
एवं सतीति प्रकरणसन्निधिभ्यां सर्वशब्दार्थसङ्कोचे सति । तथा चेदं लिङ्गमपि सङ्कोचे मानमि-
त्यर्थः। ननु 'मनुर्वैवस्वत' इत्यादीनि तत्तदहनि पूर्वमाख्यातव्यानीत्यभिप्रायेण विशेषविधानमित्या-
शङ्कावारणाय गमकान्तरमाहुः अत एवेत्यादि । तथा च यदि तथाभिप्रायः स्यात्, तदा बहुवच-
नमादिपदं वा प्रयुक्तं स्यात्, अतस्तदभावान्न तथेत्यर्थः । एवञ्च पारिप्लवसूत्रे यो विशेषितत्वरूपो
हेतुरुक्तः, स एव प्रकृतेतराण्याख्यानानि व्यावर्तयन् सर्वशब्दार्थसङ्कोचं बोधयतीति न काऽपि
क्षतेति तात्पर्यम् ॥ २३ ॥
अत एव चाग्नीन्धनाद्यनपेक्षा ॥ २४ ॥ सूत्रप्रयोजनमाहुः एवमित्यादि । व्याकुर्वन्ति
रश्मिः।
चक्षीते'ति श्रुतिसामर्थ्यम् । प्रकरणेति । सन्निधिः । पारिप्लवसन्निधिः । भाष्ये विशेषेति सङ्कुचित-
सर्वशब्दार्थोपा