सामग्री पर जाएँ
सर्वकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 2169, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 2169

तन्नोपपद्यते । कुतः । अधिकोपदेशात् । कर्मसाम्यमपि न वक्तुं शक्यं यत्र, तत्र
तच्छेषत्वं दूरापास्तम् । यत ईश्वरः कर्मणः सकाशादधिक उपदिश्यते । तथाहि ।
'स वा अयमात्मा सर्वस्य वशी सर्वस्येशानः सर्वस्याधिपतिः सर्वमिदं प्रशास्ति
यदिदं किञ्च, स न साधुना कर्मणा भूयान्नो एवासाधुना कनीया' न्नि॒त्युपक्रम्य,
अग्रे पठ्यते 'तमेतं वेदानुवचनेन विविदिषन्ति ब्रह्मचर्येण तपसा श्रद्धया यज्ञेना-
नाशकेन चैतमेव विदित्वा मुनिर्भवत्येतमेव प्रव्राजिनो लोकमीप्सन्तः प्रव्रज-
न्ती'त्यादि । एवं सति यज्ज्ञानसाधनत्वं यज्ञे, तस्य यज्ञशेषत्वं कथं स्यात्, किन्तु
यज्ञस्य तद्वेदनशेषत्वम् । एतेनेज्यत्वेन तच्छेषत्वं प्रत्युक्तं वेदितव्यम् । तज्ज्ञा-
नस्य यागपूर्वाङ्गत्वात् तद्विशिष्टस्य तस्य ब्रह्मज्ञानसाधनत्वात् । नच पूर्वं सामा-
न्यत इज्यज्ञानमासीत्, यज्ञेन विशेषतो ज्ञाने सति पुनर्यज्ञकरणे पूर्णं कर्मफलं
भवतीति न तच्छेषत्वमिति वाच्यम् । 'तमेव विदित्वा मुनिर्भवत्येतमेव प्रव्राजिनो
लोकमभीप्सतः प्रव्रजन्ती'ति श्रुतेस्तद्वेदनस्य गार्हस्थ्यविरोधित्वेन तदसम्भवात् ।
भाष्यप्रकाशः।
कर्मणो ब्रह्मसाम्यम् । 'स वा अयम्' इति श्रुतिस्तु बृहदारण्यके शारीरब्राह्मणे । एवं सतीत्यादि ।
उक्तश्रुतौ 'वेदानुवचनेने'त्यादिभिस्तृतीयाश्रुतिभिर्भगवज्ज्ञानशेषत्वे कर्मणामुक्ते सति । तस्येति ।
यज्ञशेषिणोपि शेषीभूतस्य । अधिकोपदेशेन हेतुना यत् सिद्धं तदाहुः एतेनेत्यादि । उक्तहेतुना
तत्प्रत्युक्तमित्यर्थः । तत् व्युत्पादयन्ति तज्ज्ञानस्येत्यादि । इज्यत्वेन ज्ञानस्य यागपूर्वाङ्गत्वात् पूर्वं
सत्त्वेपि तादृशज्ञानपूर्वकं यागकरणे तादृशज्ञानविशिष्टस्य यागस्य ब्रह्मज्ञानसाधनत्वात् तत्फलस्य
ज्ञानस्य यः शेषी तस्यैकदेशज्ञानशेषत्वापादने यस्य ज्ञानं यागपूर्वाङ्गं स यागशेष इति नियमो
हेतुत्वेन वक्तव्यः । स तु स्वर्गादौ व्यभिचरति । स्वर्गादेः फलत्वज्ञानं विना तदर्थके यागे प्रवृ-
त्त्यभावेन तज्ज्ञानस्य यागपूर्वाङ्गत्वेपि स्वर्गादेः फलत्वेन यागशेषत्वानङ्गीकारात् । अतस्तदप्रयो-
जकमित्यर्थः । पुनः शेषत्वमाशङ्क्य निषेधन्ति नचेत्यादि । पूर्वं गुरुमुखादध्ययने तत्तत्सामर्थ्य-
नेन स्वाध्यायत्वसम्पादने ब्रह्मण इज्यत्वेन सामान्यतो ज्ञानमासीत्, ततस्तदुद्देश्यकस्य ब्रह्मयज्ञस्य
द्रव्ययज्ञस्य च करणे विशेषतो ज्ञाने सति पुनर्यज्ञकरणे 'यदेव विद्यये'ति श्रुत्या यागस्य वीर्य-
वत्तायां पूर्णं फलं भवतीति तात्पर्यात् 'तमेतं वेदानुवचनेने'ति श्रुत्या न ब्रह्मणो यागशेष-
रश्मिः।
यज्ञेति । यज्ञशेषि भगवज्ज्ञानं तस्य शेषी विषयो भगवान् तस्येत्यर्थः । भाष्ये । तद्वेदनशेषत्वं
भगवद्वेदनशेषत्वम् । प्रकृते । उक्तहेतुनेति । आभासोक्तहेतुना तत् इज्यत्वेन कर्मशेषत्वं विष्णोः ।
इज्यत्वेनेति । विष्णोर्ज्ञानस्य । यागपूर्वाङ्गत्वं जानातीच्छति यतत इति प्रणाड्या । यागस्य यत्नत्वात् ।
फलत्वेन यागपूर्वाङ्गज्ञानम् । तत्फलस्येति । कर्मफलस्य । शेषीति । भगवान् विषयः । तस्येति ।
ज्ञानरूपस्य शेषिणः एकदेशज्ञानस्य, 'श्रुतेस्तु शब्दमूलत्वात्' निरवयवत्वेपि तद्धर्मात्मकं ज्ञानं कर्म
तेन । शेषिणः कर्मशेषत्वापादने । यदि ज्ञानविषयो न स्यात्, ज्ञानशेषो न स्यादित्येवं शेषत्वापादने ।
नियममाहुः यस्येति । विष्णोः । स इति । विष्णुः । तदिति । परम्पराकर्मशेषत्वम् । ब्रह्मण
इज्यत्वेनेति । वराहरूपस्य विष्णोरिज्यत्वेन ज्ञानं वेदब्राह्मणात् । ब्रह्मयज्ञः श्रावण्यां प्रसिद्धः ।
१. भावीतिपाठः । 2040