अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2162, कुल 2600 में से
संदर्भ में पढ़ेंश्रीकृष्णाय नमः ।
श्रीगोपीजनवल्लभाय नमः ।
श्रीमदाचार्यचरणकमलेभ्यो नमः ।
श्रीमद्ब्रह्मसूत्राणुभाष्यम् ।
भाष्यप्रकाश-रश्मि-परिवृंहितम् ।
तृतीयोऽध्यायः ।
चतुर्थः पादः ।
पुरुषार्थोऽतः शब्दादिति बादरायणः ॥ १ ॥ (३-४-१.)
उपासनाभेदेऽप्युपास्याभेदाच्छाखान्तरोक्तधर्माणामप्युपसंहारः कर्तुमुचित इति
पूर्वपादे निरूपितमिति तन्न्यायेनोत्तरकाण्डप्रतिपाद्यब्रह्मफलकसर्वात्मभावेऽपि
पूर्वकाण्डप्रतिपादितकर्मणामुपसंहारः प्राप्नोति न वेत्यधुना विचार्यते । विधि-
भाष्यप्रकाशः
पुरुषार्थोतःशब्दादिति बादरायणः ॥ १ ॥ अथ तुरीयपादं विवरिषवः सङ्ग-
तिबोधनाय पूर्वपादार्थमनुवदन्त एतत्पादार्थमाहुः उपासनेत्यादि । 'फलमत उपपत्ते'रित्यत्र
हेतुव्यपदेशेन जैमिनिमतनिरासपूर्वकं परमेश्वरस्यैव कारयितृत्वं फलदातृत्वं च समर्थयित्वा,
ततोऽनन्तरूपस्य भगवतस्तत्तत्फलदानाय साक्षात्कारो यथा भवति, तदर्थं तत्तदुपासनमुक्तम् ।
तेन तत्तदुपास्वरूपसाक्षात्काररूपविद्यासिद्धौ परमेश्वरात् फलं भवतीति सिद्धम् । तथा
उपासनाः कथं कर्तव्या इत्यपेक्षायां तं तं मार्गं स्वस्वाधिकारं तत्तद्भगवद्रूपं चानुरुध्य ते ते
तत्तत्स्वरूपगुणास्तत्तदुपासनास्वरूपनिर्वाहकत्वादन्तरङ्गा इत्यन्तरङ्गविचारेण तत्तद्गुणानां बुद्धौ
विषयीकरणरूपो गुणोपसंहार उक्तः । तत्र 'उपसंहारोऽर्थाभेदा'दिति सूत्रेऽर्थपदस्य वस्तु-
वाचकतामादाय उपासनाभेदेऽप्युपास्यवस्त्वभेदाद्यथा शाखान्तरोक्तधर्माणामप्युपसंहारः कर्तुं
युक्त इति निरूपितम्, तथा अस्मिन् पादे उपासनाया बहिरङ्गाणामाश्रमादीनां विचारे
उपसंहारसूत्रीयार्थपदस्य प्रयोजनवाचकतामादाय ब्रह्मदर्शनरूपफलैक्यात् तन्न्यायेन उत्तरकाण्डो-
क्तब्रह्मफलकसर्वात्मभावेऽपि पूर्वकाण्डोक्तकर्मणामुपसंहारः । स च कर्मणां तत्तदुपासनोपकारकतया
बुद्धौ विषयीकरणरूपः करणार्थं प्राप्नोति । 'यज्ञो दानं तपः कर्म न त्याज्यं कार्यमेव तत् ।
रश्मिः ।
पुरुषार्थोऽतःशब्दादिति बादरायणः ॥ १ ॥ प्रयोजनेति । फलवाचकतामादाय ।
'दर्शनाच्चे'तिगतसूत्रविचारेणाहुः ब्रह्मदर्शनेति । अन्तरङ्गबहिरङ्गोपासनयोः ब्रह्मदर्शनरूपफलैक्याद्धेतोः ।
तन्न्यायेनेति । एकफलकसाधनयोः परस्परं गुणोपसंहारन्यायेन । 'तन्न्यायेने'ति भाष्यविवरणं
ब्रह्मफलकेति । ननु भजनानन्दावाप्तिफलकः सर्वात्मभावः कथं ब्रह्मफलकः सर्वात्मभाव इति चेत् ।
न । अग्रे उपपादयिष्यमाणत्वात् । तेन 'ब्रह्मफलके'त्यत्र परमश्वेतिफलकेति बोध्यम् । कर्मणा-
१. भगवद्धर्मा अन्तरङ्गाणि ।
५५ ब्र० सू० २०