सामग्री पर जाएँ
सर्वकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 2105, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 2105

यहाँ दिए गए पृष्ठ का शुद्ध और पूर्ण देवनागरी लिप्यंतरण प्रस्तुत है:

१२ परिशिष्टम्।
चानुवादः। श्रुतेरनारभ्याधीतत्वेन भक्तहृद्याविष्टभगवद्धमकत्वाभावात्पूर्वोक्तो व्यासाशयो न निर्णेतुं
शक्यत इति विषयवाक्यं तात्पर्यकथनपूर्वकं तमुद्घाटयन्ति अन्यथेत्यादि। तथा च तुरीयपादेना-
विर्भूतब्रह्मविषयकत्वे श्रुतेर्निर्णिते यहूयोरव्वानुपसंहारकथनं तेन तथेत्यर्थः ॥ ७ ॥
एवमनारभ्याधीतानां धर्माणां भक्तिमार्गेऽनुपसंहारमुक्त्वा उत्तमाधिकारिभिरशेषगुणपूर्ण परं
ब्रह्मैवोपास्यं न तु विभूतिरूपमिति बोधयितुमुपासनामार्गेपि विशेषेणुपसंहारं वदतीत्याशयेन सूत्रं पठि-
त्वाधिकरणं रचयन्ति पुरुषेत्यादि। अत्र हीति, पुरुषविद्यायाम्। अनेकत्वोपलक्षणतात्पर्यमाहुः
तेनेत्यादि। तत्रेति, अन्नमयाद्युपासनाप्रकरणे। स इति, अन्नमयादिः। वैलक्षण्यान्तरमाहुः
किञ्चेत्यादि। तथात्वेमेति, मूलसूत्रप्रकृतत्वेन। एतदधिकरणसिद्धमर्थमाहुः तेनेत्यादि। एतेनेदं
बोधितं व्यासचरणानां परब्रह्मपरत्वभवन एव तात्पर्यादस्माभिरेवमधिकरणानि व्याख्यायन्ते।
उत्तमाधिकारिणां तावतैवार्थसिद्धेः। इतरैस्तु साधारणाधिकारिणामर्थे उच्यन्ते। न हि शत्रुजयः
षोडशवर्षशतजीवनं श्रीकीर्त्यादिकमुत्तमस्याभिलषितं भवति। तेन नात्र (चोद्य) चोद्यावसर इति ॥ ८ ॥
अग्रिमाधिकरणमवतारयन्ति अथेत्यादि। कुतो न वाच्यमित्यत आहुः न हीत्यादि।
उपासनार्थमितरेषां पाप्मवेधः सञ्च्यत उतासञ्च्च्यते, यद्याद्यः पक्षस्तदा न संशयापायः। यदि
द्वितीयस्तदोक्तदोषापत्तिरित्यर्थः। नन्वर्थवादाधिकरणे विधेयस्तावकत्वेनार्थवादानां प्रामाण्यं पूर्वतन्त्रे
व्यवस्थापितम्, 'विधिना त्वेकवाक्यत्वात्स्तुत्यर्थेन विधीनां स्यु'रिति, एवं च यथाकथञ्चन स्तुत्याप्यु-
पासनरुचिसिद्धेर्नाप्रामाण्यमिति चेत्तत्राहुः एकत्रेत्यादि। स्तुत्यंशे असन्तमर्थं वदतीति निश्चित्युवात्तदा
विचारकस्य विध्यंशेपि तथात्वसन्देहोद्गवे तत्र प्रवृत्तिव्याघातेन विधेः प्रवर्तकत्वसिद्धान्तो व्याहन्येत,
वैयर्थ्यं च वेदस्य स्यात्, न च मध्वादिविद्यासु कल्पनोपदेशस्य व्यासपादैरङ्गीकारादत्रापि तथास्त्विति
वाच्यम्। भूतार्थकप्रयोगविरोधापत्तेः। मध्वादिविद्यास्वपि 'तस्य द्यौरेव तिरश्चीनव५शोन्तरिक्षमपूपूर्वम्'
इत्याद्युद्देश्यं रूपविशिष्टस्यैव रूपान्तरविधानदर्शनेन तावन्मात्रस्यैव काल्पनिकत्वात्। अन्यथा तत्रापि 'ता
एता ऋच एतमृग्वेदभम्यतप'न्नित्यादिबाधापत्तेः। न चार्थवादेषु सर्वत्र यथाश्रुतार्थग्रहणं 'आदित्यो यूपः
यजमानः प्रस्तरः। गो अश्वा एव पशवोऽन्ये त्वपशव' इत्यादिगौणीव्युच्छेद इति वाच्यम्। तत्र प्रत्यक्ष-
विरोधेन गौणीस्वीकारात्तदनुच्छेदात्। असति प्रमाणान्तरविरोधे तद्दृष्टान्तेनान्यत्र तथा वक्तुमशक्य-
त्वात्, तथासति 'प्रतिष्ठन्ति ह वै य एता रात्रीरुपयन्ती'त्यादावर्थवादिकफलस्याप्यनङ्गीकारापत्तेः।
तस्माद्यत्र प्रमाणान्तरविरोधस्तत्रैव कल्पनोपदेशादिः, नान्यत्रेति निश्चयः। तदेतद्बुद्धिकृत्वाहूः
साक्षादित्यादि। पूर्वतन्त्रविचारेणैवं परम्पराक्रियार्थत्वमुक्त्वा उत्तरकाण्डविचारेण साक्षात्क्रियार्थत्व-
मेवेत्याहुः वस्तुत इत्यादि। य एवं वेदेति। वाक्यैरिति, 'एतद्वै छन्दसां वीर्यमाश्रावयास्तु
श्रौषड्यज ये यजामहे वषट्कारो य एवं वेद स वीर्येरेव छन्दोभिरर्चति, इन्द्रस्य वा एषा यज्ञिया तनूर्य-
द्वषट्कारमेव तबजन्ति य एवं वेदोपैनं यज्ञो नमती'त्या(दि) जातीयैर्ज्ञानफलबोधकवाक्यैरित्यर्थः। तमेवेति
हेतुमेव। तर्ह्यासन्दस्य कथं ब्रह्माभेद इत्यत आहुः आसन्दस्त्वित्यादि। अर्थशब्दस्यार्थान्तरग्रहने-
ध्ययमर्थः सिद्ध्यतीत्याशयेन पक्षान्तरमाहुः अथवेत्यादि। उक्तमानैरिति, उपासत्वादिलिङ्गैः ॥ ९ ॥
अग्रिमाधिकरणमवतारयन्ति एवमित्यादि। तत्रेति, भगवत्सम्बन्धे। पव्यत इति, मुण्डके
पठ्यते। एतत्पूर्वार्द्धं तु 'यदा पश्यः पश्यते रुक्मवर्णं कर्त्तारमीशं पुरुषं ब्रह्मयोनि'मिति। इति योज-
नेति, अनेन परममुत्कृष्टं साम्यं समत्वमद्वैतलक्षणं उपैति अवगच्छतीति योजना निरस्ता। अद्वैतस्य
वैधर्म्यायावरूपत्वेन लक्षणाग्रासात्, साम्यस्य द्वयधर्मत्वेन तदभावरूपतायां श्रुतिविरोधप्रसङ्गाच्च
1980