अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2097, कुल 2600 में से
संदर्भ में पढ़ेंसति। तथा चैवं भावने सवदृष्टान्तबोधिता लिङ्गस्य नियामकता भज्येतातस्तथा न भावनीयमित्यर्थः ।
अत्र वादी लैङ्गिकनियमस्याप्रयोजकत्वं शङ्कते नन्वित्यादि। तत्र समादधते सत्यमित्यादि। तत्रेति,
आक्षेपे। कार्येति, मूलरूपोपासकेन कार्या। इति ज्ञेयं परमिति। मन्त्रेवताराणामेव तत्त्वविधानदर्श-
नाच्चेत्यर्थः। ननु श्रुत्या त्वेतावद्बोध्यत इति सत्यम्, तथापि मूलरूपत्वाविशेषेणोपसंहारहेतोर्विद्यमा-
नत्वादुपसंहारे किं बाधकमित्यत आहुः तन्नेत्यादि। उक्तमेवेति। लैङ्गिकनियमरूपं यत्कर्मण्युक्तं
तदेव, अन्यथा तत्राप्यतिप्रसङ्गः स्यादिति भावः। ननु पूर्वसूत्रोक्तहेतुना सर्वत्र सर्वगुणोपसंहारप्राप्तौ
समाचारसूत्रे निरूपणप्रकारभेदाधिकारभेदप्रायश्चित्तश्रवणासाधारणलिङ्गानां नियामकत्वमाहृतम्, तेन
तत्तच्छाखिमित्तत्तदधिकारिमित्तत्तल्लिङ्गनियताः स्वाधिकारानुस