अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2095, कुल 2600 में से
संदर्भ में पढ़ेंपूर्वपक्षसमाधानाभ्यां धर्मभेदापादितदोषो नापैतीति कश्चिदधिक आकारो वक्तव्य इत्यर्थः । अत्रोपासना-
विषयाणामब्रह्मत्वं सिद्धान्तत्वेनाभिमन्यमानः कश्चिदेकदेशी पूर्वोक्ताशङ्कामप्रयोजकां मनसि कृत्वा
चोदयति नन्वित्यादि । तद्दूषयन्ति मैवमित्यादि । समन्वयविरोधापत्तेरिति । आचार्येण हि
समन्वयः श्रुतीनां ब्रह्मनिरूपकत्वेन प्रतिपादितः, न तु तासामौपाधिकनिरूपकत्वेनातद्ब्रह्मेत्यर्थः ।
अथ ग्रहिलतया तथैव प्रतिपादित इत्युक्तौ युक्त्यन्तरमाहुः तासामित्यादि । ननु तासां यथाकथं-
चिद्ब्रह्मप्रतिपत्त्यर्थत्वान्न हानिरित्यत आहुः श्रुतेरित्यादि । अन्यथा सतोऽन्यथा कथनाच्चेत्यर्थः ।
अथ विषभोजनवद्वदतीति न प्रतारकत्वमित्यत एतद्व्याख्यासाप्रवृत्तिं सूचयन्ति अपरं चेत्यादि ।
तत्तदुपासनामिति । अन्यथा ज्ञानरूपामित्यर्थः । तथा च न विषभोजनवदेषोक्तिरिति भावः ।
एतदार्थ्याय युक्त्यन्तरमाहुः स्पष्टेत्यादि । तथा च यदि तदुक्तं व्यासोऽभिप्रेयात्, स्पष्टार्थानि रामादि-
पदान्यपि देवतावाचकानि ब्रह्मवाचकानि वेति सन्दिग्ध तन्निर्णयमपि कुर्यादतस्तदभावान्न तथेत्यर्थः ।
एवमेकदेशिमतं निरस्य सर्वासां ब्रह्मनिरूपकत्वमेव व्यासाभिप्रेतमित्याशयेन सिद्धं पूर्वपक्षस्वरूपमाहुः
एवं च सतीत्यादि । सर्वासां ब्रह्मनिरूपकत्वे सति धर्मभेदकृतधर्मिभेदाद्ब्रह्मानेकत्वापत्त्या 'नेह
नानास्ती'त्यादिश्रुतिविरोधात्तासामौपाधिकपरत्वे बहूनां वाक्यानां ब्रह्मविद्यात्वहानिरित्ययमेव पूर्वपक्षकार
इत्यर्थः । अत्र सूत्रावयवमुपन्यस्य समादधते अभिधीयत इत्यादि । ननु नायं प्रतिज्ञार्थः ।
तथाहि । पूर्वकाण्डे यज्ञसानन्तरूपनिरूपणं यथा भगवन्मूर्तित्वसिद्ध्यर्थम्, तथा ब्रह्मनिरूपणाय
प्रवृत्ते उत्तरकाण्डेऽनेकरूपनिरूपणप्रयोजनाभावान्नयथाकथंचित्प्रतिपत्त्यर्थत्वस्य सिद्धान्तिनानङ्गीका-
रादनन्तरूपश्रुतेरसङ्कुचितवृत्तित्वेन निरूपणस्याशक्यत्वाच्चेत्याशङ्कायामाहुः ब्रह्मण इत्यादि । तथा
च 'फलमत उपपत्ते'रित्यत्र ब्रह्मणः फलदातृत्वस्य निमित्तत्वात्तत्तत्फलसाधकोपासनार्थं तत्तन्निरूपण-
मित्ययमेव प्रतिज्ञार्थ इत्यर्थः । ननूपासनार्थमेकमनेकरूपेण निरूप्यत इति कथमवगन्तव्यमित्यत
आहुः तन्न हेतुरिति । तथाच सूत्रोक्तहेतोरवगन्तव्यमित्यर्थः । कथमित्याकाङ्क्षायां तमनूद्य विवृण्वन्ति
चोदनेत्यादि । तथा च ब्रह्मत्वेनोपासनाविधानान्यावसीयते, तेन यथामिहोत्रे द्रव्यभेदे उपांशु-
याजे देवताभेदेपि एकदेशस्यैव भेदान्न यागभेदस्तथात्रापि किंचिद्रूपधर्मभेदाच्च वेद्यभूतब्रह्मभेद इत्येव-
मित्यर्थः । ननु शाखान्तराधिकरणे केवलानां रूपादीनां व्यभिचारित्वं हृदिकृत्य 'एकं वा संयोगरूप-
चोदनाख्याऽविशेषा'दिति सूत्रेण संयोगादिहेतुचतुष्कसमुदायं हेतुकृत्याभेदः साधित इति प्रकृत
एकेन हेतुना कथं सिद्धिरित्यत आहुः आदीत्यादि । तथा चात्रापि संयोगरूपचोदनात्मकहेतुत्रय-
रुत्त्वादेकदेशीरीतिकोदाहरणे भास्या अपि सत्त्वेनोक्तचतुष्कस्यापि सत्त्वान्न दोष इत्यर्थः । अद्य
सर्ववेदान्तप्रत्ययमेकं चोदनाद्यविशेषात्, यत्र चोदनाद्यविशेषस्तत्र प्रतिपाद्याभेदः । सर्वशाखाप्रत्यय-
ज्योतिष्टोमवदित्यनुमानमत्र सिद्धम् ।
तत्र दोषमाशङ्क्य सूत्रकारः समाधत्ते इत्याशयेन सूत्रं पठन्ति भेदादित्यादि । उक्तहेत्व-
सिद्धिमिति । धर्मभेदकृतमियोभेदादिपदसंगृहीतरूपाभेदस्य पक्षे ब्रह्मण्यभावेन चोदनाद्यविशेषादित्यस्य
हेतोः स्वरूपासिद्धिमित्यर्थः । तथा च ब्रह्मधर्मत्वेत्यादि, यथा षोडशिग्रहणाग्रहणयोः स्वरूप-
भेदेप्यतिरात्रधर्मत्वेनाभेदस्तथा तत्तद्धर्मवैशिष्ट्यवैशिष्ट्योर्ब्रह्मधर्मत्वेन तथात्वात् त्वदुक्तहेतोरेष स्वरूपा-
सिद्धिरित्यर्थः, भेदेन हेतुना सिद्धान्तहेतुं दूषयता त्वया प्रतिवाक्यं प्रतिपार्थं ब्रह्म भिन्नं धर्मभेदाद्यत्र
धर्मभेदस्तत्र प्रतिपाद्यभेद आभिक्षावाजिनयागवदित्यनुमानं लक्षितम् । तन्न त्वदुक्तहेतोरतिरात्रदृष्टान्तेन
व्याप्यत्वासिद्धिरित्यपि बोध्यम् । नन्वेवं ब्रह्मैक्यमत्राचार्यः किमित्याग्रहेण निरूपयतीत्याकाङ्क्षायामुप-
संहारसूत्रविचारेण तदाशयमाहुः एवं सतीत्यादि । तन्नेति, न्यूनगुणके रूपे । उचित इति,
1970