अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2087, कुल 2600 में से
संदर्भ में पढ़ें४२६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० ३ अ० २२ सू० ६१.
अङ्गेषु यथाश्रयभावः ॥ ६१ ॥ (३-३-२२.)
प्रधानेषु निर्णयमुक्त्वाङ्गेषु तमाह । एकार्थसाधकानामुपासनानां भेदेनाङ्गभेदे-
ऽप्येकतरोपासने फलैक्याद्यङ्गानि तत्र समुच्चीयेरन् नेति संशये, निर्णयमाह । उपास-
नाङ्गानां तदेवाश्रयः, तथाच यदङ्गं यदुपासनाश्रितम्, तत्रैवास्य भाव इत्यर्थः ॥६१॥
भाष्यप्रकाशः।
बोऽनेकफलत्वात्, समुच्चयाभावे त्वविशिष्टफलत्वाभावस्तत्फलसम्बन्धिफलविशिष्टत्वादिति भेदेऽपि
‘पूर्वहेत्वभावा’दिति यत्सूत्र उक्तम्, तत्तथेत्यर्थः । अत्र व्याख्यानक्लेशात् पक्षान्तरमाहुः अथवे-
त्यादि । कामैक्ये इति । एकमात्रविषयत्वेन तदैक्ये । अत्र हेतुः स्पष्ट इति । अस्मिन् पक्षे
तेषां फलभेदेन विशिष्टफलतया ऽविशिष्टफलत्वाभावरूपः पूर्वहेत्वभावः स्फुट इत्यर्थः ।
अत्रापि मध्वाचार्यमिश्रव्यतिरिक्तानां सर्वेषामैकमत्यम् । अस्माकं त्वेतावान् विशेषः ।
अत्र सूत्रे काम्यपदादुद्गीथाद्युपासना अपि संगृहीतुं शक्यन्ते । तास्वपि ‘यदेव विद्यया करोती’-
त्यादिभिः फलश्रवणात् । कामपदाभावेपि रात्रिसत्रन्यायेन काम्यत्वस्य शक्यत्वादिति ॥ ६० ॥
इति द्वाविंशं काम्याधिकरणम् ॥ २२ ॥
अङ्गेषु यथाश्रयभावः ॥ ६१ ॥ कर्माङ्गत्वेपि स्वव्यापारेण फलसाधने उपासनान्त-
रानपेक्षत्वात् प्रधानानामुद्गीथाद्युपासनानामपि काम्यत्वेन यथाकामं समुच्चयविकल्पयोः पूर्वसू-
त्रेणैव सिद्धत्वादत्र विषयान्तरं बोधयन्तोऽधिकरणमवतारयन्ति प्रधानेत्यादि । अन्यानपेक्ष-
तया स्वव्यापारद्वारा फलजनकानि प्रधानानि, तेषु समुच्चयादिनिर्णयमुक्त्वा, अन्यापेक्षतया तथा
फलजनकेष्वङ्गेषु निर्णयमाहेत्यर्थः । ननु किं प्रयोजनं येन पृथगारम्भ इत्यत आहुः एका-
र्थेत्यादि । एकोऽर्थः एकं फलम्, तत्साधकानामेकेषामुपासनानां रूपादिभेदेन भेदेपि तेषां
मध्य एकतरोपासनेऽन्येषामस्य च फलैक्यात् तत्फलार्थं यान्यङ्गानि तत्र तत्रोक्तानि, तान्येकस्मि-
रश्मिः।
अन्यत्र द्रष्टव्यानि । तथेत्यर्थ इति । भिन्नानि भिन्नानि फलान्युच्यन्त इत्यर्थः । भाष्ये । अ-
विशिष्टेति । सूत्रे पूर्वहेत्वभावादित्युक्तम्, अत एवेति चोक्तम् । ‘अत एव प्राण’ इत्यतिदेशाधि-
करणवत् । अतोऽस्य प्रयोगसाम्यप्रायवर्णनं क्लिष्टप्रयोगात् करिष्यन्ति । प्रकृते । असमुच्चयेति ।
‘न वा समुच्चीयेर’न्निति योजनासिद्धं पक्षम् । तदुक्तेरिति । यथा ‘अकामः सर्वकामो वा मोक्षकाम
उदारधीः । तीव्रेण भक्तियोगेन यजेत पुरुषं पर’ मित्यत्र तीव्रभक्तियोगः । तत्र नान्यकर्मसमुच्चयः ।
तत्तथेति । क्लिष्टप्रयोगाभिप्रायेणोक्तमित्यर्थः ॥ ६० ॥ इत्येकविंशं विकल्पाधिकरणम् ॥ २१॥
अङ्गेषु यथाश्रयभावः ॥ ६१ ॥ उपासनेति । अवयव्यतिरिक्तोपासनान्तरानपेक्षत्वात्
अवयविनश्चावयवमात्रत्वादवयव्यनङ्गीकारेण । काम्यत्वेनेति । ‘आपयिता ह वै कामानां भवति, य
एतदेवं विद्वानक्षरमुद्गीथमुपास्त’ इति श्रुतेस्तथा । फलसम्बन्धित्वं प्रधानत्वमङ्गेष्वपीति प्रधान-
लक्षणान्तरमाहुः अन्यानपेक्षेति । एकतरेति । महाभाष्यप्रयोगाद्बहुनां निर्धारणे डतरप् ।
१. तस्य । २. श्रीपुरुषोत्तमैर्भाष्यप्रकाशस्यान्तिमशोधे ‘काम्यास्तु’ इति सूत्रं पृथगधिकरणत्वेन निर्दिष्टम् । अतस्त-
दनुसारण ‘काम्यास्तु’ इत्यादि द्वाविंशमधिकरणं भवति । श्रीकृष्णचन्द्रैः श्रीगोपेश्वरैश्च ‘काम्यास्तु’ इति पृथगधिकरणत्वेन न
निर्दिष्टम्। तैश्च तस्यैकविंशे विकल्पाधिकरणेऽन्तर्भावः कृतः । श्रीपुरुषोत्तमैरपि पूर्वमेवमेव निर्दिष्टम् । वेदान्ताधिकरणमाला-
यां त्वस्मिन् पादे पञ्चविंशत्यधिकरणानि, भाष्यप्रकाशिकावृत्तौ चतुर्विंशत्यधिकरणानि । अतः प्रकाशे पञ्चविंशत्यधिकरणानि,
रश्मौ च चतुर्विंशतिरित्यसामञ्जस्येन योजितमिति ।
1962