सामग्री पर जाएँ
सर्वकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 2082, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 2082

माह तथाहीत्यादि । पूर्वोक्तभाववान आत्मनः प्राणादिकं सर्वं दर्शयति श्रुतिः
'तस्य ह वा एतस्यैवं पश्यत' इत्यादिना । इतः पूर्वमपि 'स वा एष एवं पश्य'न्नि-
त्युपक्रम्य, 'आत्मरतिरात्मक्रीड आत्ममिथुन आत्मानन्दः स स्वराड् भवति,
सर्वेषु लोकेषु कामचारो भवती'ति श्रुतिश्च । न हि लोके एवं सम्भवति, आत्म-
पदानां भगवद्वाचकत्वादिति सर्वोत्तमविषयकभावस्यैव तथात्वं युक्तमिति चोप-
पत्तिर्हिशब्देन सूच्यते ॥ १७ ॥
इति तृतीयाध्याये तृतीयपादे एकोनविंशं भूम्न इत्यधिकरणम् ॥ १९ ॥
भाष्यप्रकाशः ।
यद्भाववद्भूतरितिभावनार्थमिति । भगवति विगाढभाववान् यो भक्तस्तद्रीतिभावनार्थम् । ननु
ऋषीणां तथैव तात्पर्यमित्यत्र किं गमकम्, अत आहुः नह्वित्यादि । तदुक्तं कामसूत्रसमाप्तौ
वात्स्यायनेन 'तदेतद्ब्रह्मचर्येण परमेण समाधिना । विहितं लोकयात्रार्थं न रागार्थोऽस्य संविधिः ।
रक्षन् धर्मार्थकामांस्त्रीन् सम्प्रश्यन् लोकवर्तिनीम् । अस्य शास्त्रस्य तत्त्वज्ञो भवत्येव जितेन्द्रिय'
इति । तथाच यदि लौकिके तात्पर्य स्यात्, एतच्छास्त्रतत्त्वज्ञस्य जितेन्द्रियभवनरूपं फलं न वदेत् ।
एवं भरतोक्ते सङ्गीतशालेपि ज्ञातव्यम् । उपवेदत्वात् । अतः पूर्वोक्त एव निश्चयः । सूत्रशेषमव-
तारयन्ति अत्रेत्यादि । उक्तस्यार्थस्य प्रकृतश्रुत्यभिप्रतत्वे उपपत्तिमाहेत्यर्थः । उपपत्त्यन्तरं बोध-
यितुं हिशब्दार्थमाहुः सर्वोत्तमेत्यादि । तथात्वमिति । सर्वसाधनज्यायस्त्वम् ।
अत्रान्ये, वैश्वानरविद्यामुदाहृत्य, किमिहोभयथाप्युपासनं स्यात् व्यस्तस्य समस्तस्य च,
उत समस्तस्यैव वेति सन्देहे, व्यस्तस्यापि विहितत्वात् फलस्यापि कथनादुभयथेति प्राप्ते, समस्त-
स्यैव न्याय्यम् । आन्तमेकवाक्यत्वात् । यथा 'वैश्वानरं द्वादशकपालं निर्वपेत् पुत्रे जात' इत्यत्र ।
'मूर्धा ते व्यपतिष्यन्मां नागमिष्य' इत्याद्यनर्थस्य व्यस्तोपासने दर्शितत्वाच्चेत्याहुः ।
रश्मिः ।
विगाढेति । षडुपायिजन्यभाववान् । पूर्वोक्त इति । सर्वात्मभावविषयः । उक्तस्येति । ससम्भोग-
मोक्षरूपस्य सर्वात्मभावस्य । प्रकृतश्रुतिः 'तस्य ह एवं पश्यत' इत्यादिः । भाष्ये । लोके
एवमिति । इह लोके जीवन्मुक्तस्य सम्भवति । प्रकृते । सर्वोत्तमेत्यादीति । उपपत्तिरिति ।
युक्तमित्यस्य युक्तिरूपपत्तिस्तद्विषयमित्यर्थात् तद्विशेषणीभूतोपपत्तिः । सर्वात्मभावस्य मूलंत्वेपि मुख्य-
भक्तित्वमादाय पदार्थसङ्गतिरर्थत्वादिति बोध्यम् । वैश्वानरेति । 'प्राचीनशाल औपमन्यव' इत्यस्या-
माख्यायिकायां व्यस्तस्य समस्तस्य वैश्वानरस्योपासनं श्रूयते । व्यस्तोपासनं तावत्, 'औपमन्यव कं
त्वमात्मानमुपास्स' इत्यादि । 'दिवमेव भगवो राजन्निति होवाच, एष वैश्वतेजा आत्मा वैश्वानरोऽयं
त्वमात्मानमुपास्स' इत्यादि । तथा समस्तोपासनमपि । 'तस्य ह वा एतस्यात्मनो वैश्वानरस्य मूर्धैव
सुतेजाश्चक्षुर्विश्वरूपः प्राणः पृथग्वर्त्मात्मा सन्देहो बहुलो बस्तिरेव रयिः पृथिव्येव पादा'वित्यादि । एवं
वैश्वानरविद्याम् । फलस्येति । 'तस्मात् तव सुतं प्रसूतमासुतं कुलं दृश्यत' इति फलस्य । आन्त-
मिति । अन्तं 'तस्य ह वा एतस्ये'ति समस्तोपासनवाक्यम्, तदभिव्याप्य आन्तं एकवाक्यत्वसमस्तस्य
वाक्यत्वं तस्मात् । 'तस्य ह वा' इत्यत्र तच्छब्देन व्यस्तपरामर्शं कृत्वा एतस्येत्यनेनोक्तसमस्तस्याभेदोक्तेः ।
यथा वैश्वानरमिति । प्रथमस्य द्वादशाधिकरणे चतुर्थपादे । 'वैश्वानरं द्वादशकपालं निर्वपेत्, पुत्रे
जाते यदष्टाकपालो भवति गायत्र्यैवैनं ब्रह्मवर्चसेन पुनाती'त्यादि दृष्टिविधायके वाक्ये येयं द्वादशसङ्ख्या
तस्यामष्टत्वादिसङ्ख्यानामन्तर्भाव उक्त इत्यान्तमेकं वाक्यम् । मां नागमिष्य इति । मां प्रति विशेषेण