अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 206, कुल 2600 में से
संदर्भ में पढ़ेंब्रह्मप्रतिपादकं ब्राह्मणम्, तच्छेषाः सृष्ट्यादिप्रतिपादकाः । यद्यपि न
विधीयते, तथापि तादृशमेव ज्ञानं फलायेति युक्तमुत्पश्यामः । पूर्ववैलक्षण्यं
तु भूषणाय ।
भाष्यप्रकाशः ।
त्यादीनामृचाम्, अच्युतमसीत्यादीनां यजुषां, हानू हानू हावू इत्यादीनां साम्नां च विद्य-
मानत्वात् तान्येव मन्त्रः । ऋगित्युपलक्षणम् । तद्भिन्नं ब्रह्मप्रतिपादकं ब्राह्मणम् । ब्रह्मप्रतिपादक-
भागशेषाः सृष्ट्यादिप्रतिपादका भागा ब्राह्मण एव निविशन्ते । ततश्च मन्त्रब्राह्मणसमुदायरूपत्वात्
सिद्धं वेदान्तानां वेदत्वमिति । तर्हि वेदोत्तरत्वं कथं निवर्ततामित्यत आहुः यद्यपीत्यादि । तथाच
वेदे बाधितार्थवचनस्याभावादविधीयमानमपि ज्ञानं यथोक्तं फलं जनयिष्यत्येवेति नोत्तरत्वमित्यर्थः ।
ननु पूर्वमीमांसायां विहितस्यैव फलवत्त्वं साधितमिति कथं तथेत्यत आहुः पूर्वेत्यादि । तथाच,
गुणे त्वन्यायकल्पनेति तत्रैवोक्तत्वाद् वेदगुणभूतस्य जैमिनीयस्यैव निर्णयस्य हीनाधिकारिपरत्वं
वेदविरोधे कल्पनीयमित्यर्थः ।
रश्मिः ।
अमेध्या वै माषा इति निन्दा, वायुर्वे क्षेपिष्ठा देवतेति प्रशंसा, तद्विचिकित्सन् जुह्वानीति संशयः,
यजमानेनेत्यादि विधिः, माषानैव मह्यं पचतेति परकृतिः, पुरा ब्राह्मणा अनैषुरिति पुराकल्पः, याव-
तोऽश्वान् प्रतिगृह्णीयात् तावतो वारुणान् चतुःकपालान्निर्वपेदिति विशेषावधारणकल्पना । एवं
मन्त्रेपि इन्दवो वामुशन्ति हीति हेतुः, उदानिषुर्महीरिति तस्मादुदकमुच्यते इति निर्वचनं, मोघ-
मन्नं विन्दते अप्रचेता इति निन्दा, अग्निमूर्धा दिवः ककुत्पतिरिति प्रशंसा, अधःस्विदासीदुपरिस्विदा-
सीदिति संशयः, कपिञ्जलानालभेतेति विधिः, सहस्रमयुतं दददिति परकृतिः, यज्ञेन यज्ञमयजन्त
देवाः इति पुराकल्पः । ऋगेव मन्त्र इति भाष्यं व्याकुर्वन्ति वेदान्तेषु चेत्यादि । ऋचामिति
'तेषामृग्यत्रार्थवशेन पादव्यवस्था' इति सूत्रोक्तमर्थवशेन व्यवस्थितपादत्वरूपं लक्षणमन्त्रानुस्यूतमिति
ऋचामित्यर्थः । तेषामित्यस्य मन्त्राणामित्यर्थः । अर्थवशेनेत्यनेन छन्दोनुरोधेन मगणादिकृता 'पाद-
व्यवस्था व्यावर्तता । यजुषामिति 'शेषे यजुःशब्दः' इति सूत्रोक्तमृक्सामतिरिक्तमन्त्रत्वरूपं
लक्षणमन्त्रानुस्यूतमिति यजुषामित्यर्थः । साम्नामिति 'गीतिषु सामाख्या' इतिसूत्रोक्तं ऋक्षु यद्गानं
तद्रूपत्वरूपं लक्षणमन्त्रानुस्यूतमिति साम्नामित्यर्थः । तान्येव मन्त्र इति मन्त्रपदोत्तरं यदेकत्वं
तत्प्रकृत्यार्थावच्छेदके मन्त्रत्वेऽन्वेति मन्त्रत्वं च ऋग्यजुःसामनिष्ठमेकमेवेति नायोग्यता । न च
पदार्थः पदार्थेनान्वेति न तु पदार्थैकदेशेनेति व्युत्पत्तिविरोधः । अनेकव्रीहिव्यक्तितात्पर्यके संपन्नो
व्रीहिरितिवाक्येप्येकवचनदर्शनेन तादृशव्युत्पत्तिसंकोचस्यावश्यकत्वादित्यन्यत्र विस्तारः । ननु भाष्ये
ऋगित्युक्तेः कुतो यजुःसाम्नोर्ग्रहणमित्यत आहुः ऋगित्यादि । ब्रह्मप्रतीत्यादि भाष्यं विवृण्वन्ति
तद्भिन्नमित्यादि । साधितमिति द्वितीयाधिकरणे साधितमित्यर्थः । तथाच शाबरभाष्यम् 'यः पुरुषं
निःश्रेयसेन संयुनक्ति स धर्मशब्देनोच्यते' इति । तत्रैवेत्यादि पूर्वतन्त्रे नवमस्य तृतीयपादे 'विप्रतिपत्तौ
विकल्पः स्यात् समत्वाद् गुणे त्वन्यायकल्पनैकदेशत्वात्' इत्यधिकरणे अदितिः पाशां प्रमुमोक्तेतुं
अदितिः पाशान् प्रमुमोक्तेतानिति पाशमन्त्रावेकवचनान्तबहुवचनान्तौ तत्र बहुवचनान्तः किं प्रकृतावे-
वाग्नीषोमीये निविशते उत बहुपाशकेषु पशुगणेषूत्कृष्यते नोत्कर्षः किंतु गुणे कारकगतसंख्यामभिधा-
यित्वेन गुणभूते बहुवचने लक्षणाकल्पना पाशावयवगतेषु बहुत्त्वं लक्ष्यते इति । एवमुपाङ्गेषु गणना-
द्वेदगुणभूतायां पूर्वमीमांसायामेव तत्त्वं कल्पनीयमित्यर्थः । उपलक्षणाद्वैलक्षण्यस्यासत्त्वेदरूपभूषणभावेहि