अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 203, कुल 2600 में से
संदर्भ में पढ़ेंHere is the line-by-line transcription of the Sanskrit text from the provided page into Devanagari Markdown:
११६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० २ सू० २
तेषां किं स्यादिति चेत् । मैवम् । अस्ति तावद् वेदत्वम् । अध्ययनादिभ्यः
स्मरणाच्च । प्रमाणं च सर्वोऽपि वेदः स्वार्थे । स च न यज्ञश्चेद् ब्रह्म भवतु । न
चैतावता अवेदत्वम् । अतिप्रसङ्गात् । शक्यते ह्यग्निहोत्रादीनामन्यतरदनन्तर्भाव्य
भाष्यप्रकाशः ।
विचारे किं फलं स्यात् । सर्वोऽपि प्रयोजनोद्देशेनैव प्रवर्तत इति फलाभावात् प्रवृत्तिविधाते
तन्मीमांसाऽप्यपार्थेति तत्साधिते ब्रह्मणो जगत्कर्तृत्वेऽत्यन्ताभिनिवेशो न कार्य इत्यर्थः ।
अत्र समाधत्ते मैवमित्यादि । न वेदान्तेषु वेदोपरत्वं, किंतु वेदत्वमेव । अध्ययना-
ध्यापनज्ञानविधिभिर्वेदं पठन्तः पाठयन्तोऽर्थं चावगच्छन्त आर्याः स्वरपूर्वक मनध्यायशुद्धाऽशौ-
चादिनियमान् पालयन्त एव तथा कुर्वन्तीत्याचारपरंपरया,
'स्वयंभूरेष भगवान् वेदो गीतस्त्वया पुरा ।
शिवाद्या ऋषिपर्यन्ताः स्मर्तारोऽस्य न कारकाः' ।। इति
पुराणोक्तस्मरणस्यात्रापि तुल्यत्वेन च तन्निर्धारात् । किंचौत्पत्तिकसूत्रे बादरायणग्रहणं पूजार्थं
कृत्वा अलौकिकेऽर्थे परानपेक्षं वेदस्य प्रामाण्यं जैमिनिना प्रतिपादितम् । ततश्च सोऽलौकिकोऽर्थः
को वेत्यपेक्षायां यथा तन्मते यज्ञस्तथा व्यासमते ब्रह्म । अनुपलब्धार्थत्वस्योभयत्रापि तौल्यात् ।
किंच । यागप्रतिपादकत्वेन वेदत्वं मन्वानो भवान् पृष्टव्यः । किं यावद्व्यङ्गप्रतिपादकत्वं
वेदत्वम्, उत यत्किंचिद्यत्प्रतिपादकत्वम्, अथवा यथाकथंचित् तत्प्रतिपादकत्वमिति । नाद्यः ।
अग्निहोत्रादिप्रतिपादकस्य भागस्य तदितरयज्ञाप्रतिपादकत्वेनावैदत्वप्रसङ्गात् । न द्वितीयः ।
सर्वस्य तथात्वप्रसङ्गात् । मनुः पुत्रेभ्यो दायं व्यभजदित्याद्यर्थवादस्यापि तथात्वप्रसङ्गाच्च ।
तृतीयश्चेत् सिद्धं ब्रह्मप्रतिपादकवेदेऽपि वेदत्वम् । वक्ष्यमाणरीत्या तेषामपि यज्ञार्थत्वेन तथात्वा-
दिति । तदेतदुक्तं शक्यते हीत्यादिना । अत्रान्यतममिति वक्तव्ये अन्यतरदिति प्रयोगस्तु,
महाभाष्ये 'प्रत्ययः' 'परश्च' इत्यत्र निमित्तविचारं प्रकृत्य तदुदाहरणे तथथा बहुष्वासीनेषु कश्चित्
कंचित् पृच्छति, कतरो देवदत्त इत्यत्रोपाध्यनङ्गीकाराद् बोध्यः ।
रश्मिः ।
चेत्' 'न, शास्त्रपरिमाणत्वात्' इत्यधिकरणे । आचारस्यापि प्रामाण्यादाहुः अध्ययनेत्यादि । प्रमाणं
चेत्यादि भाष्यं विवृण्वन्ति किंचौत्पत्ति केत्यादि । अनुपलब्धेति अनधिगतार्थगन्तृत्वं प्रमाण-
मिति लक्षणस्मारकपदम् । अवेदत्वप्रसङ्गादिति । एतेनातिप्रसङ्गादिति भाष्यं विवृतम् ।
शक्यते हीत्यादिभाष्यस्यातिप्रसङ्गादिति भाष्यविवरकत्वात् । तथात्वादिति यथाकथंचि-
द्यज्ञप्रतिपादकत्वादित्यर्थः । तदेतदिति किंच यागेत्यादिना विवृतमित्यर्थः । न चैतावता ब्रह्म-
प्रतिपादकत्वेनावैदत्वमग्निहोत्रादिप्रतिपादकवेदभागेषु । अतिप्रसङ्गादवेदत्वप्रसङ्गात् । यतोऽग्निहोत्रदर्श-
पूर्णमासादीनां मन्त्रविधिनिषेधनामधेयार्थवादसंबन्धिनां मध्येन्यतरद् एकतरद् वेदेनन्तर्भाव्य
वेदाद्बहिष्कृत्य वेदे वेदत्वं वक्तुं शक्यतेऽपि तु न, तस्मादतिप्रसङ्ग इति भाष्यार्थः । अग्नि-
होत्रादिषु लक्षणापर्याप्तिं मत्वा न प्रति तद्भेद्लक्षणं न वक्तव्यमतो यथाकथंचिद्यज्ञप्रतिपादकत्वं
वेदत्वं तच्च वेदान्तेष्वपीति फलितोर्थः । उपाध्यनङ्गीकारादिति । अत्राप्यभाष्यः । इतरडत-
116