सामग्री पर जाएँ
सर्वकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 2022, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 2022

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ३६३
भगवदुक्ताकुतोभयपदस्य न मुक्तिरर्थः, किन्तु 'यतो वाच' इत्यादिनानन्दस्य
स्वरूपमुक्त्वा 'आनन्दं ब्रह्मणो विद्वान्न बिभेति कुतश्चने'ति श्रुत्युक्तं यत्पूर्वोक्तं
रसात्मकपुरुषोत्तमभजनानन्दानुभवोत्तरकालीनमकुतोभयं तदर्थः ॥ ४३ ॥
इति तृतीयाध्याये तृतीयपादे षोडशं प्रदानवदित्यधिकरणम् ॥ १६ ॥
भाष्यप्रकाशः।
सर्वत्र तथानुभवरूपं यत्कार्यं तादृशः प्रियत्वानुभवः सर्वात्मभाव इति फलति । तेन भगवद्धर्म-
विगाढभावतथास्फूर्तिषु सर्वात्मभावप्रयोग आधिदैविकादिभावो ज्ञेयः । ननु पूर्वोक्त-
वाक्ये अकुतोभयसाधनत्वेन शरणागतेर्वा सर्वात्मभावपूर्वकस्वप्राप्तेर्वापदेशः । अकुतोभयं चाक्षर-
प्राप्तिरूपा मुक्तिरेव । 'अभयं वै जनक प्राप्तोऽसी'त्यादिश्रुत्या निश्चीयते । एवं सति सर्वात्म-
भाव