सामग्री पर जाएँ
सर्वकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 2014, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 2014

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ३५३
अथवा । पूर्वसूत्राभ्यां भगवद्धर्मकृतेरावश्यकत्वमुक्तम् । सर्वात्मभाववतो
भाष्यप्रकाशः।
अत्र भगवत्स्वरूपविषयकपूर्णज्ञानवतामेव तदिच्छया वर्णाश्रमधर्मकरणतदकरणयोर्विभजनात्
पूर्णज्ञानप्राप्यत्वबोधकं अकृशमिति विशेषणं प्रतिपादितं ज्ञेयम् । न कृशं यस्येति तदर्थादिति ।
एवमेतत्सूत्रव्याख्याने प्रत्यवायश्रवणादिना गौणकालेऽप्यवश्यकर्तव्यतया पूर्वाधिकरणे
साधितानां कर्मणां वैयर्थ्यपरिजिहीर्षया फलस्य वक्तव्यत्वेन पृथग्ध्यप्रतिबन्धः फलमिति
सूत्रभागसार्थक्यमायाति, न सम्पूर्णस्य सूत्रस्येत्यरुच्या व्याख्यानान्तरार्थं सूत्रमवतारयन्ति
अथवेत्यादि । पूर्वसूत्राभ्यां भगवद्धर्माणां मोक्षफलानां श्रवणादीनां कृतेः करणस्यावश्य-
कत्वमुक्तम्, यः पुनः सर्वात्मभाववान्, तस्य तूक्तभगवद्वचनात्, तं प्रति मोक्षसाध-
रश्मिः।
भगवदिति । इच्छाया भगवन्निष्ठत्वेन तन्निष्ठसत्ताया अपि परम्परया भगवन्निष्ठत्वेन विषयविधया भगवद-
धीनत्वम्, मुख्यत्वात्, इतरयोश्च विशेषणत्वात् । ननु प्रभोरिच्छास्तीत्यत्र प्रभुसम्बन्धीच्छानिष्ठः सत्तानुकूलो
व्यापार इति वैयाकरणबोधतः कथमितरयोर्विशेषणत्वमिति चेत् । न । अनौचित्याद्भगवतो विशेषणत्वे
सखण्डब्रह्मवादेन । एतद्भगवदधीनपदेन सूच्यते । एतत्फलमाहुः अतो भक्तेष्विति । येषां पुनर्भग-
वान् साधनं फलं च तेष्वपीत्यर्थः । तादृशेष्विच्छासत्तयोरभावात् । तथा चैतन्निश्चयस्य ज्ञानरूपस्य
सकलभक्तसाधारणं भगवदधीनत्वमुररीकार्यमिति भावः । नचान्योन्याश्रयः भगवदधीनो निर्धारः निर्धा-
राधीनो भगवान् साधनमिति ज्ञानमिति वाच्यम् । पूर्वं कर्मकरणनिर्धारेण कार्येणाधीनस्य भगवत्सा-
धनमस्ति कारणं विना कार्याभावादिति भगवात्साधनमिति पश्चाज्ज्ञानस्य सम्भवेनान्योन्याश्रयाभावात् ।
भाष्ये । वेदेत्यादि । इदं गीतातृतीयाध्याये 'लोकसङ्ग्रहमेवापि संपश्यन्कर्तुमर्हसी'ति लोकसङ्ग्रहः ।
'यद्यदाचरति श्रेष्ठ' इत्यारभ्य 'उपहन्यामिमाः प्रजा' इत्यन्तेन वेदमर्यादारक्षा । ननु 'न कुर्यां कर्म चे-
दह'मितीश्वरं प्रति व्यतिरेकमुखेन विधिरस्ति तत्र गीतायां अर्जुनं प्रति लोकसंग्रहकथनवद्वेदमर्यादारक्षा-
प्युक्ता न सर्वान्तर्याह्यसेत्याकाङ्क्षायां हिकारस्यार्थमाहुः हीति । अत्र विद्वांसं प्रत्याज्ञास्तीति नोक्तदोष
इत्यर्थः । भगवद्वाक्येन रूप्यते व्यवह्रियत इति भगवद्वाक्यरूपा उपपत्तिः युक्तिः । यदीदं भगवद्वाक्यं
न स्यात्, उक्तदोषः स्यादिति अव्ययानां वैयाकरणमते द्योतकत्वात्सूच्येतेति । प्रकृते । भगेत्यादि ।
पूर्णेति । 'पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यत' इति श्रुत्या पूर्वं पूर्णं
भगवता भक्तमनोरथयानुरूपं पूर्तिकर्मज्ञानं तद्वताम्, विभजनात् अम्बरीषाद्युदाहरणसमर्थितात् । अकृ-
शमिति । (अकृशमिति ज्ञानम्, पूर्णत्वात्, अन्येषां परिच्छेदरूपत्वात् । अनेन पूर्णमेव ज्ञानं साधनमिति,
न तु खण्डब्रह्मज्ञानानि शारीरकादीनि । सर्वेषां भक्तानामुपसंहृतत्वात् दौर्बल्यमाशङ्क्य निराकृतम् ।
भक्तानां तत्रैव प्रवेशात् । अनेनान्येपि दैहिका धर्मा निवारिताः । उत्पत्तिकार्यंतपस्यादीनि चाक्षर-
साम्यात् निवारितानि । 'अस् भुवि' 'डुकृञ् करणे' 'शम उपशमे' इति धात्वादयो गृहीताः । प्रपञ्च-
कर्मज्ञानानि वा ज्ञानसाधनानि, ततः ससाधनं ज्ञानमुक्तं भवति ।) तथाचायं सूत्रार्थः । मम कर्म-
करणेऽकरणे वा भगवदिच्छास्तीति निर्धारणाञ्जिज्ञासाद्यनुष्ठानिकानाम्, अतस्तैर्निष्कामतया कर्म कर्तव्यमेव ।
तदृष्टेः । तस्या भगवदिच्छाया दृष्टिर्ज्ञानं यस्याम्बरीषोद्धवयुधिष्ठिरादेस्तस्य पृथक् जीवकृतकर्मणो यत्फलं
तस्माद्भिन्नं सन्मार्ग रक्षालोकसङ्ग्रहादिकं तदेव फलम्, न तु स्वर्गादिकम् । पूर्वोक्तनिष्कामकर्मकर्तुस्तु
अप्रतिबन्धः कर्मजप्रतिबन्धाभावः फलं युक्तमिति । इदानीं मुख्यायाः एकादशसर्वस्वत्वेन सर्वनिर्णये
उक्तायाः न्यूनताख्यनिग्रहस्थाननिवारिकायाः प्रसङ्गतः प्रस्तावनामाहुः य इति । उक्तेति । भाष्योक्तभग-
४५ ब्र० सू० २० 1889