अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 200, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ११३
तस्मात् सर्वज्ञत्वं सर्वशक्तित्वं च सिद्धं निरङ्कुशजगत्कर्तृत्वेन ।
भाष्यप्रकाशः ।
विज्ञानेन्द्रभिक्षुणा तु शास्त्रं योनिः मूलप्रमाणं यस्मिन्निति सप्तम्यर्थे बहुव्रीहिमङ्गीकृत्यो-
क्तम् । अत्र शास्त्रादिति वक्तव्ये यच्छास्त्रयोनित्वादित्युक्तं, तच्छास्त्राविरुद्धानुमानस्मृतियोगिप्रत्य-
क्षादिसंग्रहाय । अत एवाग्रे, उपपत्तेश्चेत्यादावनुमानम् । स्मृतेश्चेत्यादौ स्मृतिः । आचारदर्शनाच्चे-
त्यादावाचारदर्शनमुखेन योगिप्रत्यक्षादिकं च संगृहीतमिति । तदग्रैवाग्रे मया दूष्यम् ।
उक्तार्थं निगमयन्ति तस्मादित्यादि । तथाचात्र निरङ्कुशजगत्कर्तृत्वेन शास्त्रप्रतिपाद्यत्व-
मिति लक्षणं सिद्धमित्यर्थः । तत्र धर्मादेर्वारणाय तृतीयान्तम् । प्रकृत्यादिवारणाय शेषम् । तेन
लक्षणे विवादाध्यासितत्वदोषपरिहारः । प्रजापत्यादिवारणाय निरङ्कुशेति ज्ञेयम् ।
अत्रानादिसृष्टिवादिनो मीमांसका बीजाङ्कुरदृष्टान्तेन सृष्टिप्रवाहानादित्वं वदन्तस्तपोध्यानु-
पषितपुण्यविशेषलब्धशक्तीनां प्रजापतिप्रभृतीनां क्षेत्रज्ञानामेव तत्तत्कल्पेषु कारणत्वमभिमन्यमाना
रश्मिः ।
तथाचात्रेति । लक्षणं निरङ्कुशत्वं चानन्याधीनत्वं निष्क्रान्तमङ्कुशादिति 'निरादयः क्रान्ता-
द्यर्थे पञ्चम्याः' इति समासः । जगज्जन्मादिकर्तृत्वेनेत्युक्तावसंभव इति जगज्जन्मकर्तृत्वेनेत्युक्तौ
स्थितिप्रलयकर्तर्यव्यासिर्जन्मादीति सौत्रादिपदासंग्रहश्चेति च दूषणप्रसरोऽतो जगत्कर्तृत्वेनेत्युक्तम् ।
न च कर्तृत्वं जन्मकर्तृत्वं जन्मादिकर्तृत्वं वा वाच्यमित्युभयतोमयदोषतादवस्थ्यमिति
शक्यं निरङ्कुशजगज्जन्मकर्तृत्वेन निरङ्कुशजगत्स्थितिकर्तृत्वेन निरङ्कुशजगल्लयकर्तृत्वेनेत्येवं प्रातिस्विक-
रूपेण लक्षणघटकतृतीयान्ताङ्गीकारात् । नन्वङ्कुशप्राप्तिरीश्वरीये कर्तृत्वे कुत इति चेन्न, ईश्वरे
आप्तगजेन्द्रलीलात्वात् । अङ्कुशस्तेऽनेन, अकि लक्षणे 'सानसिवर्णसि' इति साधुः । अङ्कुशः । धर्मा-
देरिति यागज्ञानयोरित्यर्थः । ननु शास्त्राणि षट् वेदवेदान्तसांख्ययोगपाञ्चरात्रपाशुपतानि । तत्र
तृतीयान्तपदानेऽपि लक्षणगमनादतिव्याप्तिरिति चेन्न, इष्टापत्तेः । 'एकं सद् विप्रा बहुधा वदन्ति' इति
'त्वामेवान्ये शिवोक्तेन मार्गेण शिवरूपिणम्' इति । 'यदेकमव्यक्तमनन्तरूपम्' इति च श्रुतिः ।
परमनेकरूपेष्वाचार्या नियामकाः 'आचार्यवान् पुरुषो वेद' 'आचार्यचैत्यवपुषा स्वगतिं व्यनक्ति'
इति च । प्रकृत्यादीति प्रकृतिः स्वरूपं 'प्रकृतिमगन् किल यस्य गोपवध्वः' इति वाक्यात् ।
आदिपदेन शिवमायाकामाः । ननु 'अचेतनत्वेऽपि क्षीरवच्चेष्टितं प्रधानस्य' इति कापिलसांख्यप्रव-
चनसूत्रवृत्तेः सांख्यशास्त्रमादाय लक्षणस्य प्रकृतावतिव्याप्तिरिति चेन्न, प्रथमाध्याये प्रकृतेः कार-
णत्वाभावस्योपपादनात् । 'उपरागात् कर्तृत्वं चित्सान्निध्याच्चित्सान्निध्यात्' इति सूत्रमेकार्थीभाव-
सामर्थ्येपीति ज्ञेयम् । ननु निरङ्कुशपदेनैव प्रकृत्यादिवारणे किं शेषेणेत्यत आहुः तेनेत्यादि । तथा च
ये निरङ्कुशजगत्कर्तृत्वं प्रकृतौ मन्यन्ते तेप्यत्र पिहितमुखा इत्यर्थः । ननु भाष्ये निरङ्कुशपदा-
भावात् किं दृढमावश्यकत्वमत आहुः प्रजापत्यादीति । वेदोक्तलेषूपबृंहिते वेदोक्तेऽयं आदरः सूचितः ।
'एकं सद् विप्रा बहुधा वदन्ति' इति वेदान्ते प्रजापतावपि तपोरूपब्रह्मणः सृष्टत्वात्, शब्दार्थयो-
रभेदात् । [प्रजापत्यादीति पुराणे ।
'सृजामि तन्नियुक्तोऽहं हरो हरति तद्वशः ।
विश्वं पुरुषरूपेण परिपाति त्रिशक्तिधृक्' इति वाक्यात् ।
१. प्रपञ्चमनाशिकाः । २. 'एकः सन्' इतिपाठः ।
१५ ब्र० सू० २० 113