अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1991, कुल 2600 में से
संदर्भ में पढ़ें६३० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० ३ पा० ३ अ० ११ सू० ३४.
भाष्यप्रकाशः।
कदाचन न बिभेतीति पुरुषोत्तमस्यानन्दज्ञानसाधनतया मनोमय एतस्योक्ततया, ब्रह्मोपनिषदि च
'यज्ज्ञात्वा मुच्यते बुध' इति तुरीयपादे कथनेन जीवाभिन्नमानन्दमेतदित्यर्थायोगाद् यस्मिन्
परमात्मनि जीवात्मा संघेयतत्वेन पूर्वमन्त्र उक्तः, एतत्परमात्मस्वरूपं आनन्दं आनन्दोऽस्यास्ती-
त्यानन्दं जीवस्य सन्धेयतत्वेन सम्बन्धि, यज्ज्ञात्वा बुधः सन् मुच्यत इत्यर्थकतया तस्य भगवदी-
यत्वेन तथात्वसिद्धिरिति जानीहि । अतो न चोद्यावकाश इति दिक् ।
अन्ये तु, इदमेकसूत्रमधिकरणान्तरमङ्गीकृत्य, 'द्वासुपर्णेति' मन्त्रो मुण्डके श्वेताश्वतरे च
ब्रह्मप्रकरणे पठ्यते, काठके तु 'ऋतं पिबन्ता'विति । तयोराद्ये भोक्तृभोक्त्रोर्वेद्यता, द्वितीये तु
भोक्त्रोरेवेति वेद्यभेदाद्विद्याभेदे प्राप्ते, विद्यैक्यं युक्तम् । इयत एतावन्मात्रस्य द्वित्वपरिच्छिन्नस्यो-
भयत्रामननात् । 'पिबन्ता'वित्यस्य प्रयोगस्य छत्रिन्यायेन पिबदपिबत्समुदायेपि सम्भवात् ।
उपक्रमोपसंहाराभ्यामेतयोर्वाक्ययोः परविद्यात्वनिश्चयेन उभयत्रापि जीवसहितस्य ब्रह्मण एव
प्रतिपाद्यत्वादित्याहुः ।
तन्मतेऽधिकरणवैयर्थ्यमेव । काठकवाक्यस्य जीवद्वयपरत्वं निवार्य जीवसहितब्रह्मपरत्वस्य
'गुहां प्रविष्टा'वित्यधिकरण एव प्रतिपादितत्वात्तदपेक्षयाधिक्यस्यात्रादर्शनाच्चेति ।
रामानुजाचार्यास्तु, इयत् अस्थूलत्वादिविशेषितमानन्दादिकमेव गुणजातं सर्वत्रानु-
सन्धेयतत्वेन प्राप्तम् । कुतः । आमननात् । आभिमुख्येन मननं चिन्तनमामननं तद्भाद्धेतोरित्ये-
वमर्थमाहुः । तत्राप्युदासीना वयम् ॥३४॥ इत्येकादशमक्षरधियामित्यधिकरणम् ॥११॥
रश्मिः।
पाद्यपुरुषोत्तमानन्दशब्दं ज्ञानं तस्य साधनतया । साधनत्वमुक्तविधया । एतस्येति । निरवद्यानन्दस्य ।
इत्यर्थायोगादिति । कर्मकर्तृभेदौचित्यादितिभावः । पूर्वमन्त्र इति । 'महात्मा प्रज्ञयात्मानं संधत्ते
परमात्मनि । तेन सन्ध्याध्यानमेव तस्मात्सन्ध्यामिवन्दन'मिति मन्त्रे । तस्येति । निरवद्यानन्दस्य ।
तथात्वेति । निरवद्यानन्दसिद्धिः । चोद्येति । पुरुषोत्तमजीवमनोमयानन्दश्रुत्या प्राप्तस्य चोद्यस्य
दोषस्यावकाशः । तयोरिति । वाक्ययोः । भोक्तृभोक्त्रोः ब्रह्मजीवयोः । भोक्त्रोरिति । छाया-
तपयोः । छत्रीति । 'छत्रिणो यान्ती'तिन्यायेन छत्री राजा, अन्ये त्वच्छत्रिणः । उपक्रमेति । मुण्डके
तृतीयमुण्डकारम्भस्यापि द्वितीयमुण्डकस्था 'दिव्यो ह्यमूर्तः पुरुष' इत्युपक्रमेण 'आनन्दरूपममृतं यद्विभाती'-
ति वोपक्रमेण संपन्ना । श्वेताश्वतरे 'य एको वर्णो बहुधा शक्तियोगा' दित्युपक्रम्य 'अजामेकां लोहितकृष्ण-
रूपा'मित्युपक्रम्य वा 'द्वा सुपर्णे'त्यस्याः कथनात् । उपसंहारस्तु मुण्डके 'नायमात्मा बलहीनेन
लभ्य' इति, श्वेताश्वतरे 'ऋचो अक्षरे परमे व्योम'न्निति । उभयत्रेति । वाक्ययोः । अत्रेति ।
अस्मिन्नधिकरणे । अतोस्य सूत्रस्य पूर्वशेषत्वमिति भावः । अस्थूलत्वादीति । अस्थूलत्वादिमदान-
न्दादिकमित्येवं विशेषितम् । इदं पूर्वशेषमस्मिन्मते । तत्रापीति । अपिना पूर्वमतसमुच्चयः । एकत्र-
वृत्तेर्दूषकत्वादपरत्र विद्वन्मण्डने 'अभेदोऽनुपाधित्वा'दित्यनयोक्तत्वादुदासीनाः। मायागुणैः सर्वकर्मादि-
भिश्चिन्तनीयमित्यन्ये । रामानुजास्तु मायागुणैरचिन्तनीयम्। अस्मन्मतेऽपि । 'प्रवर्तते यत्र रजस्तमस्तयोः
सत्त्वं च मिश्र'मिति द्वितीयस्कन्धात् ॥३४॥ इत्येकादशमक्षरधियामित्यधिकरणम् ॥ ११ ॥
1866