अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1989, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाशः ।
होत्रं वेत्वि'त्यादिकः पुरोडाशप्रदानमन्त्रो विनियोगविधेर्याजुषत्वेन यजुर्वेदिनाध्वर्युणा याजुर्वेदिके-
नोपांशुस्वरेण पठ्यते, न तूद्गात्रा सामगेन सामस्वरेणोच्चैस्त्वेन, तद्वत् । तदुक्तं पूर्वकाण्डे शेषलक्षणे
'गुणमुख्यव्यतिक्रमे तदर्थत्वान्मुख्येन वेदसंयोग' इति । अर्थस्तु, गुणमुख्ययोर्व्यतिक्रमे
विरोधे सति तदर्थत्वात् गुणस्योत्पत्तिविधेः प्रधानार्थत्वान्मुख्येन याजुर्वेदिकेन विनियोगविधिना
वेदसंयोगो ग्राह्य इति । एतद्दृष्टान्तव्याख्यानं पूर्वोक्तभाष्यत्रयेपि समानम् ।
शाबरभाष्ये त्वन्यदुदाहृतम् । तथाहि । अस्याधानं यजुर्वेदविहितम्, 'य एवं विद्वानग्नि-
माधत्त' इति, तदङ्गत्वेन यजुर्वेद एव गानं च विहितम्, 'य एवं विद्वान् वारवन्तीयं गायति
यज्ञायज्ञीयं गायति वामदेव्यं गायती'ति, एतानि च सामानि सामवेदे उत्पन्ना