अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1971, कुल 2600 में से
संदर्भ में पढ़ें३१० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० ३ अ० ८ सू० ३०.
ज्ञाने खर्गादित्रये तुल्यदर्शित्वासम्भवश्च । 'मुक्तिं ददाति कर्हिचित् स्म न भक्ति-
योग'मिति वाक्ये भक्तेराधिक्यं स्पष्टमेवोच्यते । तस्माच्छून्यार्थजिघृक्षोः सकाशात्
पूर्णार्थवान् महानिति युक्तमेवास्योपपन्नत्वम् । इममेवार्थं दृष्टान्तेनाह लोकव-
दिति । यथा स्वाधीनभर्तृका नायिका तदवस्थाननुगुणगृहवित्तादिकं दीयमान-
मपि नोररीकरोति, तथेत्यर्थः ।
अथवा । स भगवान्नेव लक्षणमसाधारणो धर्मो यस्य स तल्लक्षण उद्भट-
भक्तिभावः स एव अर्थः स्वतन्त्रपुरुषार्थरूप इति । अग्रे पूर्ववत् । भगवत्प्राकट्य-
वानेव हि भक्तो भक्तत्वेन ज्ञायत इति तथा । एतेन ज्ञाप्यं हि ज्ञापकादधिकं
भवति । एवं सति यज्ज्ञापकं परमकाष्ठापन्नं वस्तु पुरुषोत्तमस्वरूपं सर्वफलरूपं
तन्महित्वं कथं वक्तुं शक्यमिति सूच्यते ॥ ३० ॥
इति तृतीयाध्याये तृतीयपादेऽष्टममुपपन्नाधिकरणम् ॥ ८ ॥
भाष्यप्रकाशः।
काष्ठा सूचिता । तेन फलभक्तौ मुक्तिर्न सन्निपततीति मर्यादाभक्तिफलभूतमुक्तिभाजोपि
सकाशात् पुष्टिमक्तोऽधिक इति सिद्धम् । अत्र गोपालतापनीयोक्ते विषयवाक्ये भक्तिविषयतया
पुरुषोत्तमस्वरूपस्य सिद्धत्वेन श्यामावदातत्वं प्रतिपादितम् ।
रश्मिः।
(नु)भवविषयीक्रियमाणत्वं न जातिरिति कथं तस्य पदार्थत्वमिति चेत् । न । विशेष्यौदासीन्येन धर्मा-
वच्छिन्ने शक्तेः । कलशपदस्य कलशत्वे शक्तस्य कलशत्वधर्मवाचकत्वेप्याकृतौ शक्तेरनिवार्यत्वात् ।
व्यक्तेरभेदस्य जातिबाधकस्य सत्त्वात् । तदज्ञान इति । तुल्यत्वनिरूपकलौकिकसगुणसुखत्वेनापवर्गा-
ज्ञाने । अपवर्गस्य सात्त्विकत्वात्सगुणत्वम् । उत्कृष्टत्वेनापवर्गज्ञाने । पूर्णार्थेति । यथा 'पूर्णा भगव-
दीयास्ते शेषव्याप्तामिमारुता' इत्युक्ताः पूर्णार्थवन्तः । 'अत इतरड्याय' इति सूत्रादेवकारः । अस्य
मुमुक्षोः सकाशाद्ब्रह्मभजनकर्तुः । तदवस्थेति । भर्तृवस्थेत्यर्थः । एवं स्पष्टमित्यर्थः । स्पष्टमिति ।
यस्येति । भक्तस्य । उद्भटेति । भक्त इति वक्तव्ये भक्तत्वस्योद्भटभक्तिभावप्रयुक्तत्वादप्रयोजकस्य
मुख्यत्वात्तदेवोपात्तम् । अग्र इति । दृष्टान्तांशे । ज्ञाप्यमिति । अत्र भक्तो ज्ञाप्यः । सामान्ये नपुं-
सकम् । तन्महित्वमिति । भक्तमहित्वम् । सूच्यत इति । सूत्रेण सूच्यते । एवं स्पष्टमित्यर्थः ।
काष्ठेति । तदीयत्वरूपा । फलभक्ताविति । 'भक्तिरस्यभजन' मिति श्रुत्युक्तायां मनःकल्पनं मानसी-
सेवारूपं तनुवित्तजसेवाफलमिति फलभक्तित्वम् । नेति । 'फलभोगनैराश्येने'त्यत्र मुक्तिरूपफलस्य
सत्त्वान्न सन्निपततीत्यर्थः । यद्यपि तदीयत्वस्य सामीप्यमुक्तित्वम्, तथापि सामीप्ये दासत्वेन दासीत्वेन
सुहृत्वेन स्थित्यभावान्न प्रायपाठपठितसामीप्यमुक्तित्वम् । तत्र सुहृत्त्वरूपभक्त्यभावात् । वस्तुतस्तु
प्रायपाठपठितसामीप्ये दासत्वदासीत्वे सोपाधिके, न तु निरुपाधिके । आत्मकामस्य नोपाधित्वम् ।
'अकाम आप्तकाम आत्मकाम' इति श्रुतावकामत्वानन्तरमात्मकामत्वश्रावणात्सकलोपाधिनैराश्यात् ।
विषयवाक्य इति । 'भक्तिरंहस्य भजन'मित्यादिरूपे तदाक्षिप्त 'एतदत्र विचार्यत' इत्यादिभाष्योक्ते
च । भजतीत्युक्त्या भजनविषयतयेत्यादिः । अक्षरस्य ज्ञानविषयत्वात् । श्यामेति । पूर्वमानन्दमय-
१. तन्महत्त्वमिति शोधितपाठः ।
1846