अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1949, कुल 2600 में से
संदर्भ में पढ़ें२८८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० ३ अ० ५ सू० २६.
इत्येतावत्साम्यमस्तीत्युपसंहारप्रकरण एतस्य निरूपणं कृतम् ॥ २६ ॥
इति तृतीयाध्याये तृतीयपादे पञ्चमं वेधाद्यधिकरणम् ॥ ५ ॥
भाष्यप्रकाशः।
मात्रेण दोषसंक्रमकथनात्, भारतादौ माण्डव्यदत्तयमशापप्रसङ्गे बालकृतपापस्य जनकत्वोपाधिना
पितृसंक्रमकथनात्, विश्वामित्रपुण्येन त्रिशङ्कोः स्वर्गप्राप्तिसरणाच्चापि तथा सम्भवेन स्तुतिमात्र-
त्वाङ्गीकारस्याप्रयोजकत्वात्, 'क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे' 'ज्ञानाग्निः सर्वकर्माणि
भस्मसात् कुरुते तथे'ति श्रुतिस्मृतिभ्यां ज्ञानस्य कर्मनाशकत्ववत् विद्याविशेषस्यान्यत्र कर्मसंक्राम-
कत्वेपि बाधकाभावात्। नच सुकृतदुष्कृतयोः कर्तृसामानाधिकरण्यस्यैव सर्वत्र दर्शनान्नान्यत्र साक्षात्
[L10