अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1935, कुल 2600 में से
संदर्भ में पढ़ें३७४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० ३ अ० १४ सू० २४.
नैकविद्यत्वं वक्तुं शक्यम्, नचोपसंहार इति । चकारात् 'अम्भस्यपारे भुवनस्य
मध्ये नाकस्य पृष्ठे महतो महीया' नित्यादिश्रुतयः, 'सर्वतः पाणिपादान्त'-
मित्यादिस्मृतयश्च संगृह्यन्ते । एतेन यत्किञ्चिद्धर्मसाम्येपि न मूलभूतब्रह्मरूपत्वम्,
अत एव न तन्नोपास्यता तथात्वेनेति ज्ञापितम् । अत एव भृगूपाख्यानेऽन्नमया-
दिब्रह्मज्ञानेपि जिज्ञासैवोक्ता । भृगोरानन्दरूपपरब्रह्मज्ञाने तु नोक्ता । तेनाशे-
षगुणपूर्णं ब्रह्मेत्युक्तं भवति । अत उत्तमाधिकारिभिस्तदेवोपासनीयम्, न
भाष्यप्रकाशः।
संयोगभेदात्, पुरुषविद्यायां पुरुषत्वस्यान्नमयादिषु पुरुषविधत्वस्य चोक्ततया रूपभेदादेतस्यास्तासां
च चोदनाख्ययोर्भेदस्य स्पष्टत्वाच्च न विद्यैक्यमिति तथेत्यर्थः । वैलक्षण्यबोधनस्य तात्पर्यमाहुः
एतेनेत्यादि । एतेनेति । विभूतिभ्योऽतिवैलक्षण्यबोधनेन । न तन्नोपास्यता तथात्वेनेति ।
ब्रह्मत्वेनोपास्यतायां सत्यामपि न मूलभूतब्रह्मरूपत्वेन । एतदधिकरणप्रयोजनस्य पूर्वमनुक्तत्वाद्विदा-
नीमाहुः तेनेत्यादि । तेनेति । एवं महिमाधिक्यादतिवैलक्षण्यबोधनेन । उत्तमाधिकारि-
भिरिति । एतेन भक्ता अपि संगृहीता ज्ञेयाः । तेषामेव तथात्वादिति । अत्र समाचारसूत्रोक्तैर्हेतु-
भिरेवानुपसंहारप्राप्तावपि यत्पुनर्विशेषतस्तद्धेतुकथनम्, तद्विभूतिरूपेषु मूलरूपगुणानुपसंहारार्थम् ।
'योऽन्यथा सन्तमात्मान'मिति वाक्योक्तबाधकस्य विद्यमानत्वात् । एवञ्चात्र पूर्वं पतित्वेन
चिन्तिते चित्तस्य निवेशो यदाधिकः, तदा सोऽक्षरस्यापि पतिरित्येवं पर्यवस्यति । 'उतामृतत्वस्येशान'
इति मोक्षेशनशीलत्वस्यात्र श्रवणात् । अनस्तमितत्वाद्वायुरूपा कलाप्यत्र बोधिता ।
अन्ये तु, ताण्डिनां पैङ्गिनां च या 'पुरुषो वा व यज्ञ' इत्यादिनाक्ता षोडशशतवर्षजी-
वनफलिका पुरुषविद्या, या च तैत्तिरीयाणां 'तस्यैवं विदुषो यज्ञस्यात्मा यजमान' इत्यादिनाक्ता
विद्या, तयोः पुरुषविद्येति समाख्यैक्यात् पुरुषावयवेषु यज्ञावयवकल्पनेन रूपैक्याच्च विद्यैक्ये,
तैत्तिरीयोक्ता गुणास्तत्रोपसंहर्तव्या इति प्राप्ते, यथा पुरुषविद्यायां ताण्ड्यादिभिर्गुणा आम्नायन्ते,
न तथा तैत्तिरीयक इति रूपभेदात्, तैत्तिरीयके च 'य एवं वेद ब्रह्मणो महिमानमाप्नोती'ति
फलसंयोगभेदाच्च विद्याभेदे सति न तैत्तिरीयोक्तानां गुणानां तत्रोपसंहार इत्येवमाहुः ।
तत्रेदंमवधेयम् । व्यासचरणैर्हि जिज्ञासाशास्त्रं शीघ्रं मोक्षो भवतु जीवानामिवि करुणया
आरब्धम् । तेन याभिः शीघ्रं मुच्यन्ते, ता एव विद्या आदरेण विचारणीयाः, शेषाणां तु तन्नो-
रश्मिः।
नच द्विरूपवर्णलोपः । सहस्रपादित्यत्रापि तथापत्तेः । पूर्वमिति । 'ईशान' इति श्रुत्येशनशीलत्वस्य
भावित्वात्तत्पूर्वं पतित्वेन 'दर्शयति'सूत्रभाष्योक्तरीत्या चिन्तिते 'स मानसीन आत्मा जनाना'मिति
श्रुत्या चित्तस्य निवेशः स यदाधिकः मानसेवारूपः, तदा स भगवान् अक्षरस्यापि पतिः । 'मम
योनिर्महद्ब्रह्मे'ति गीतावाक्यात् । अपिना स्वस्य पतिः । अतिगोप्यत्वात्स्पष्टं नोक्तम् । विमृत्यूपासना-
नन्दमयमजनाभ्यामानन्दमयाधिकरणोक्तरीत्या पर्यवस्यति । तदेतद्भजनं गीतगोविन्दटीकायां
श्रीगोस्वामिभिः कृतमिति निगर्वः । मोक्षेति । ज्ञानिप्राप्यभगवद्रूपोऽक्षरस्तस्य ईशनशीलत्वं तस्य ।
'यदनेनातिरोहती'ति श्रुतिविचारेणाहुः अनस्तमिति । तैत्तिरीये 'स वा एषोऽक्षरसमय' इत्युक्तेरनेन
ऽकारेण अतिरोहतीति छान्दसो नलोपः । 'आविर्भावतिरोभावौ शक्ती वै मुरवैरिण' इति वाक्यात्तत्षष्ठो
भावविकारोऽस्तस्तदभावं इतत्वात् गतत्वात् वायुरूपा कलेति । 'सैषानस्तमिता देवते'ति श्रुतेः । इयं
कलान्न मयादिनिरूपणानुवृत्त्यान्नमयस्य शिरोरूपापि प्रियशिरस्त्वादिसूत्रोक्तप्रियशिरस्त्वादिवासनयान्नमय-
शब्देन बोधिता । 'वायवस्ये'ति संहिताश्रुतेः । मनोमयस्य शिरो यजुःकला सा नोक्ता । प्रतिपादकत्वात् ।
1810