सामग्री पर जाएँ
सर्वकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 193, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 193

१०६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० २ सू० २
अथवा जन्मप्रभृति सर्वे भावविकारा आदिशब्देन गृह्यन्ते । तथाच
जन्म च आदिश्चेत्येकवद्भावः । आदिशब्दश्च धर्मवाची । स च स्वसंबन्धिनं
लक्षयति। तस्योभयसापेक्षत्वादुत्पत्तेर्विद्यमानत्वादन्यानेव भावविकारानुपलक्षय-
तीत्यादिशब्देनान्ये भावविकाराः ।
भाष्यप्रकाशः।
जन्मस्थितिभङ्गादीनामाविर्भावादिरूपत्वबोधनेन भगवानेव तत्तद्रूपः क्रीडाविस्तरश्च भवतीति
पुष्टिसृष्टिप्रकारो बोधितः । तथाच जन्म आविर्भाव आदिर्येषां प्रकाराणामित्यर्थो बोध्यः । प्रवाह-
सृष्टिबोधनाय प्रकारान्तरमाहुः अथवेत्यादि । प्रभृतिशब्दः पूर्वावधिवाचकः । सर्व इति जायतेऽस्ति
विपरिणमते वर्धतेऽपक्षीयते नश्यतीतिप्रतीतिसिद्धा यास्कोक्ताः षट् । कथं गृह्यन्त इत्यपेक्षाया-
माहुः तथाचेत्यादि । सर्वोऽपि द्वन्द्वो विभाषैकवद्भवतीत्येकवद्भावः । आदिशब्दश्च प्राथम्यरूप-
धर्मवाची । पूर्वतन्त्रे शब्दानां धर्मवाचकत्वस्य सिद्धत्वात् । स च स्वसंबन्धिनं लक्षयति । तत्र कं
लक्षयतीत्याकाङ्क्षायां तस्य यथोत्पत्तावाधारता तथाग्रिमेषु निरूपकता । प्राथम्यस्योभयसापेक्षत्वात् ।
अत उत्पत्तेरत्र कण्ठोक्तत्वेन विद्यमानत्वादन्यानेवोपलक्षयतीति तथेत्यर्थः । तेन विषयवाक्यो-
दितौ स्थितिभङ्गौ प्रत्याहारन्यायेनान्येषामपि बोधकौ । कालादिगतमपि कर्तृत्वं भगवदीयमेव, न
तु स्वतन्त्रमिति च बोधयितुमत्रादिपदोक्तिरिति तात्पर्यं सूचितम् । एवं व्याख्याने आदिपदस्य
लाक्षणिकत्वम् । तथादिपदेन आदित्वधर्मवतस्य जन्मनोऽपि संग्रहीतुं शक्यत्वाज्जन्मपदवैयर्थ्या-
रश्मिः।
स्वस्यैव सर्वरूपत्वेन धारणपक्षेत्यर्थः । पुष्टिसृष्टिप्रकार इति ब्रह्मैव कार्यकारणरूप इति प्रकार
इत्यर्थः । 'पुष्टिं कायेन निश्चयः' इति पुष्टिप्रवाहमर्यादाग्रन्थवाक्यात् । अत्र पक्षे
सर्वस्यानन्दरूपतया विकारविरहादर्थमाहुः तथा च जन्मेत्यादि । प्रकाराणामिति । 'लोक-
वत्तु लीलाकैवल्यम्' इति न्यायेन लौकिकभावविकारसदृशप्रकाराणामित्यर्थः । प्रवाहेत्यादि प्रवाहः
प्रवहणम् । सर्गपरंपरया अविच्छेद इति यावत् । 'द्वौ भूतसर्गौ लोकेऽस्मिन् दैव आसुर एव च'
'द्वया ह प्राजापत्या देवाश्चासुराश्च' इति श्रुतिस्मृतिभ्याम् । अत्र समवायी मायामनोरूपः 'द्वे अस्य
बीजे' इत्यारभ्य 'मायामयं वेद स वेद वेदम्' इति भगवद्वाक्यात् । मायामात्रस्यैव मिथ्यात्वं न
सर्वस्य । प्रवाहस्य सदसद्भिन्ननिरूपत्वात् । संध्याधिकरणे स्फुटीभविष्यतीदम् । प्रभृतीत्यादि तथा च
जन्मपूर्वावधिकसर्वे भावविकारा इति भाष्यार्थः । यास्कोक्ता इति निरुक्तप्रसिद्धो यास्कर्षिः ।
सर्वोपीत्यादि परिभाषेयम् । आदिशब्द इति भाष्यं विवृण्वन्तिस्म आदिशब्दश्चेति ।
पूर्वतन्त्र इति आकृत्यधिकरण इत्यर्थः । स्वसंबन्धिनमाश्रयं, तं विना स्थातुं धर्मो न शक्नोतीति
भावः । लक्षणायां संबन्धं वक्तुमाहुः तत्र कमित्यादि । तस्य यथेत्यादि प्राथम्यस्य यथा जन्म-
न्याधारता तथाग्रिमेष्वस्त्यादिषु निरूपकता, प्राथम्यस्यास्त्यादिनिरूप्यत्वात् । उभयसापे-
क्षत्वादिति आधारनिरूपकसापेक्षत्वादित्यर्थः । उपलक्षयतीति निरूपकतासंबंधेनोपलक्षयतीत्यर्थः ।
ननु कथं तर्हि आदिशब्दप्रयोग इत्यत आहुः तेनेत्यादि । प्रत्याहारन्यायेनेति 'आदिरन्त्येन सहेता'
इति सूत्रसिद्धेनेत्यर्थः । अन्येषामिति विपरिणामवर्धनपक्षयाणामित्यर्थः । कर्तृत्वमिति कालेन
विपरिणमतीत्यादिप्रतीत्या विपरिणामादिकर्तृत्वमित्यर्थः । भगवदीयं तृतीयस्कन्धवाक्यात् कालादी-
नामीश्वराधीनकर्तृत्वात् । तथा चापि जन्मादि कर्तृत्वं सूचयितुमादिपदेनास्त्याद्युपलक्षणमिति भावः ।
106