सामग्री पर जाएँ
सर्वकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1928, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1928

पसंहारे वा भक्तोपासनायां विशेषाभावादित्यर्थः। अनुपसंहारस्यात्र बाधकत्वाभा-
वज्ञापनाय वाशब्दः।
विशेषादिति वा। पूर्वं विहितत्वेन भगवदाकारादिषु भजनं कुर्वन्नप्युक्त-
रूपभक्तसङ्गेन तद्भजनेन च पूर्वस्माद्विशिष्टं रसमनुभूतवानिति रसास्वादे
विशेषाद्गुणोपसंहारं स न करोतीत्यनुवादः। विहितत्वेन गुणोपसंहारपूर्वकोपास-
नायां नीरसत्वेनानादरज्ञापनाय वाशब्दः। भगवदवताररूपोपि बादरायणः प्रास-
ङ्गिकेऽपि भक्तिमार्गस्मरणे तदीयरसावेशपरवशस्तद्भावस्वभावमनूक्तवान् ॥ २१ ॥
अपि च। उपसंहारो हि तत्रानुक्तानामन्योक्तानां गुणानां तत्र सत्त्वेन
ज्ञानमात्रम् । उक्तरूपभक्ताय तु तद्भजनीये भक्त एवालौकिकानुभावान्
भगवान् प्रत्यक्षं दर्शयतीति न तत्रोपसंहारापेक्षागन्धोऽपीत्यग्रोत्तरे पठति ।

भाष्यप्रकाशः।
इत्याकाङ्क्षायां तद्युत्पादयन्ति अस्येत्यादि । तथाच नवमस्कन्धे 'तत्प्रसङ्गानुभावेन रन्तिदेवा-
नुवर्तिनः। अभवन् योगिनः सर्वे नारायणपरायणा' इतिवत् तादृशस्य तथात्वेन तद्भजनरसास्वादनेन
तदाविष्टभगवति गुणोपसंहारे वा 'विस्मृते'त्यादिहेतुद्वयेनानुपसंहारे वा तत्प्रसङ्गानुभावादेव
भगवत्प्राप्तिरविशिष्टेति तादृशभक्तोपासनायां ताभ्यामुत्कर्षापकर्षाभावादुपसंहारस्य किमपि
प्रयोजनमित्यर्थः । 'अविशेषा'दिति पदच्छेदं कश्चिन् मन्येत, तदोक्तोऽर्थो न सिद्ध्येदिति, तदपि
तत्सिद्धये प्रकारान्तरे हेतुं व्याकुर्वन्ति विशेषादित्यारभ्य वाशब्द इत्यन्तम् । तद्भजनेनेति ।
भगवदाकृतिभजनेन । ननु तर्ह्यनुवादस्य किं प्रयोजनम्, अत आहुः भगवदवतारेत्यादि
तथाच । तदुत्कर्षबोधनाय तत्स्वभावबोधनमेव प्रयोजनमित्यर्थः ॥ २१ ॥

रश्मिः।
फलतीति साधनेपि तथेति । भाष्ये । इत्यग्रिममिति । इति हेतोः कार्याकार्यसाधारणमग्रिमं सूत्रम् ।
प्रकृते । तद्युदिति । कुत इति प्रश्ने, भक्तभक्तत्वेनेत्यादिव्युत्पादनम् । कुत्रेति प्रश्ने, तदाविष्टभगवतीति
व्युत्पादनम् । कुर्वन्तीत्यर्थः । तत्प्रसङ्गेति । रन्तिदेवप्रसङ्गस्य योऽनुभावः विसर्पियशोरूपः तेन
तत्पुत्राः । तथात्वेन भक्तभक्तत्वेन । तत्प्रसङ्गेति । भगवद्भक्तप्रसङ्गस्यानुभावः स्वर्गपुनर्भवाधिक-
भगवत्सङ्गिसङ्गस्य स्वर्गपुनर्भवानादरः । 'तुलयाम लवेनापि' इति वाक्यात् । ताभ्यामिति । भगव-
त्युपसंहारानुपसंहाराभ्यां भक्तभक्तस्योत्कर्षापकर्षाभावात् । भाष्ये । वाशब्दोऽनादर इत्याहुः
अनुपेति । अग्रेति । भक्तभक्तविषये भगवत्प्राप्तौ । प्रकृते । प्रकारान्तर इति । उक्तरूपभक्त-
सङ्गेन भगवद्भजने । विशेषादित्यारभ्येत्यादि । विहितत्वेनेति । 'तं भजे'दिति गोपालतापनीये ।
विशिष्टमिति । भक्तपूजनेन समं भगवद्भजने पुष्टिमार्गो जात इति, 'ज्ञात्वाज्ञात्वा च कर्माणि जनोऽय-
मनुतिष्ठति । विदुषः कर्मसिद्धिः स्यात्तथा नाविदुषो भवे'दिति भक्तसङ्गेन भगवज्ज्ञानं जातमिति वा,
विशिष्टम् । अनुवाद इति । अनुपसंहारे प्रकारानुवादः प्रकारान्तरे । विहितत्वेनेति । पूर्ववत् ।
नीरसत्वेनेति । सात्त्विकत्वात्तथा । 'मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वितः । सिद्ध्यसिद्ध्योर्निर्विकारः
कर्ता सात्त्विक उच्यते' इति गीताष्टादशाध्यायवाक्यात् । तर्हीति । प्रकारान्तरकाले । तदुत्कर्षेति ।
भक्तिमार्गोत्कर्षबोधनाय । तत्स्वभावेति । भक्तस्यानुपसंहारस्वभावबोधनम् ॥ २१ ॥