अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1921, कुल 2600 में से
संदर्भ में पढ़ें२६० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० १ पा० १ अ० १ सू० १८.
अथवा । वाजसनेयिशाखायां 'आत्मेत्येवोपासीते'त्युपक्रम्य 'तदेतत्प्रेयः पुत्रात्
प्रेयो वित्तात् प्रेयोऽन्यस्मात् सर्वस्मादान्तरतरं यदयमात्मे'ति। एतदग्रेऽन्यस्य प्रियत्वं
भाष्यप्रकाशः।
आनन्दमयस्य एतदात्मरूपत्वं न वदेत्। वदति तत्। अतः कार्यरूपादैलक्षण्यमस्यावगन्तव्यम्।
नचैवमपि आधिदैविकाद्भेदस्तु वर्तत एवेति किमनेन प्रयासेनेति शङ्क्यम् । 'आध्यात्मिकस्तु यः
प्रोक्तः सोऽसावेवाधिदैविक'इति द्वितीयस्कन्धे आध्यात्मिकाधिदैविकयोः स्वरूपभेद निवारणेन
तदभावात्। अभिलापभेदस्तु पाचकपाठकवत् कार्यभेदप्रयुक्तत्वेन स्वरूपाभेदकत्वात् ।
तस्मादाध्यात्मिकाधिदैविकयोरुभयानन्दमययोः कार्यभेदेन विभूतिविभूतिमद्भावादेव भेदः,
न तु स्वरूपतः । धर्मधर्मिणोस्तादात्म्यरूपस्याभेदस्य पूर्वं साधितत्वात्। अयमेव न्यायः
प्राणमयादिष्वपि द्रष्टव्यः । तेनानन्दमयविद्यायां पञ्चाप्यन्नमयादयः कोशातिरिक्ताः, तेषु
चत्वारो विभूतित्वेनोपास्याः, आनन्दमयः पुरुषोत्तमस्तु तादृशविभूतिमत्त्वेनोपास्य इत्येतदर्थ-
मिदमिति बोधितम् । तेन विशेषतो वैष्णवानां समीपे आसीनत्वं द्रष्टव्यमिति ज्ञापितम्।
एतस्य विचारस्य पूर्वशेषत्वादर्थस्य प्रागपि व्युत्पादितत्वाच्च नात्यन्तमावश्यकतेत्यरुच्या
प्रकारान्तरेणैतत् व्याकुर्वन्ति अथवेत्यादि । विषयादिकमाहुः वाजसनेयीत्यादि । वाजसने-
रश्मिः।
स्मात्वष्ठथालुक्। वैलक्षण्यार्थं पुनराहुः किञ्चेति। एतदात्मरूपत्वमिति। एतस्यान्नमयस्यात्मा
इदंपदवाच्यस्तेन रूप्यते आत्मित्वेन व्यवह्रियत इत्येतदात्मरूपत्वम्। वदति तदिति । 'तस्यैष एव
शारीर आत्मा यः पूर्वस्ये'ति श्रुतिर्वदति तत्, एतस्य अन्नमयस्य आत्मा इदंपदवाच्योऽन्नमयनिरूपण
आत्मत्वेनोक्तः, तेन रूप्यते आत्मित्वेन व्यवह्रियते इत्येतदात्मरूपत्वम्। न च पूर्वभाष्येनानन्दमया-
धिकरणयोर्विरोधः। 'आनन्द आत्मे'ति श्रुत्युक्तात्माभेदेन 'तस्यैष' इत्यत्रात्मनो नेतुं युक्तत्वान्न विरोध
इति। ननु 'तस्माद्वा एतस्मादात्मन' इति श्रुत्युक्त आत्मा, 'तस्यैष' इति श्रुतौ 'आनन्द आत्मे'ति
श्रुतौ तु प्रतीकगतो यः कश्चिदिति चेत्। न। अप्रसिद्धेः। तथाचान्नमये मूलात्मान्यात्मा न प्रसिद्धः।
प्राणमये आकाशस्यात्मनाध्यासाख्यसम्बन्धः। 'आकाशशरीरं ब्रह्मे'ति श्रुतेः। आकाशाभिन्नो बाह्या-
त्मेत्यर्थः। आत्मोपनिषदा नात्मपदे लक्षणा। मनोमये आदेशस्यात्मना प्रतिपाद्यतासम्बन्धः। आदेश-
प्रतिपाद्याभिन्न आत्मेत्यर्थः। सर्वस्यात्मत्वेनादेशस्याप्यात्मत्वान्न लक्षणादेशपदे। विज्ञानमये योगस्या-
त्मना साध्यसाधनभावसम्बन्धः। 'भक्त्या प्रसन्ने तु हरौ तं योगेनैव योजये'दिति निबन्धात्। भूमत्वेन
साधनत्वात्तेन रूपेणाभेदः आत्मना। स्वस्वरूपसाधनाभिन्न आत्मेत्यर्थः। लिङ्गभूयस्त्वाधिकरणे सर्वा-
त्मभावस्य भूमत्वं योगस्तदन्तर्गत इति सुष्ठु अभेदान्वयः। अस्येति। आध्यात्मिकस्य। अत एवे-
त्यादिभाष्याशयं विवरीतुमाहुः नचैवमित्यादि । भाष्यार्थस्तु अत एवेति । आध्यात्मिकलवादेव।
अस्यापीति। अन्तानन्दमयस्यापि । अग्रे अत्रैवाग्रे। स त्विति। 'यः पूर्वस्ये'ति निरूपितः।
अत्राशङ्कते स्म नचैवमित्यादिना। वर्तत इति। आध्यात्मिकस्य ज्ञेयः। अनेनेति। आधिदैविक-
शून्येनोपासनाविचारप्रयासेन। तदभावादिति। वैयर्थ्यापादकस्य किमनेन प्रयासेनेति प्रश्नस्याभावात्।
कार्यभेदेति। प्राणमयमनोमययोराध्यात्मिकयोः कार्यं शरीरधारणं सङ्कल्पादि च। आधिदैविकान-
न्दमयकार्यं प्रेरणम्, वेदान्तप्रसिद्धम्। तादृशभेदप्रयुक्तत्वेन । स्वरूपेति । पाचनकाले पाठनकाले एकस्य
स्वरूपाभेदकत्ववदिति बोध्यम्। पूर्वमिति। प्रकाशाश्रयाधिकरणे। अयमिति । कार्याख्यानसूत्रन्यायः।
1796