अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1895, कुल 2600 में से
संदर्भ में पढ़ेंHere is the line-by-line transcription of the Sanskrit text from the provided image into Devanagari Markdown:
२१४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० ३ अ० १ सू० ७.
श्रुतिबलान्निर्णयते, तथा विरुद्धधर्मवत्त्वमपि तत एव तथेत्यर्थः। तेन वस्त्वेव
तत्तादृक्गन्तव्यमिति भावः ॥ ६ ॥
न वा प्रकरणभेदात् परोवरीयस्त्वादिवत् ॥ ७ ॥
पूर्वसूत्रोक्ताशङ्कानिराकरणं वा विकल्पेन पूर्वोक्तात् प्रकारान्तरेण कर्तव्य-
मित्यह न वेति । तमेवाह प्रकरणभेदादिति । अत्रायं भावः । श्रुतिप्रामाण्यात्
यावत्तदुक्तधर्मवद्ब्रह्मेति मन्तव्यम् । एवं सति यादृशोऽधिकारिणो यादृग्वेदं
रूपम्, तादृशस्य तस्य तादृक् तन्निरूपयति प्रकरणभेदेन । तथाच ज्ञानप्रकरणे
ज्ञानाधिकारिणो याहग्रूपं ज्ञेयम्, तादृक् तस्मै निरूपयति 'अदृश्यमग्राह्य'मि-
त्यादिरूपा श्रुतिः । भक्तिप्रकरणे तु भक्तेर्बहुविधत्वात् याहग्ग्राह्यभक्तानां यादृ-
ग्यादृक्त्वनुभवविषयः, तादृक्तादृक् तन्निरूपयति अथर्वणोपनिषदिति । अत्र
दृष्टान्तमाह परोवरीयस्त्वादिवदिति । 'अस्मिन् मे लोकेऽर्धुकःस्या'दिति
कामवत आराग्रावान्तरदीक्षा पूर्वमुक्ता । तदग्रे 'परोवरीयसीमवान्तरदीक्षामु-
भाष्यप्रकाशः।
निवृत्त्या अपेते ब्रह्मत्वेऽर्थाद्भेदस्वरूपहेतोस्ततो निवृत्तत्वादुपसंहार एव न स्यादिति भावः । समाधिं
व्याचक्षते एकेत्यादि । सिद्धमाहुः तेनेत्यादि । तथाच शब्दबलकृतनिर्णयस्योभयत्रापि तुल्यत्वात्
सिद्धे ब्रह्मत्वेनाभेदे 'एकोऽहं बहु स्या'मिति श्रुत्या ब्रह्मैव स्वेच्छया 'विज्ञानमेकमुरुधैव विभाती'ति
न्यायेन जीवप्रज्ञापराधात् तथा भातीति ब्रह्मत्वप्राधान्येनोपासनायां नोपसंहारबाध इत्यर्थः ॥ ६ ॥
न वा प्रकरणभेदात् परोवरीयस्त्वादिवत् ॥ ७ ॥ पूर्वसूत्रे 'अन्यथात्वं शब्दा'दि-
त्यंशेन यदाशङ्कितम्, तस्यैवास्मिन् सूत्रे प्रकारान्तरेण परिहारमाहेत्याशयेन व्याकुर्वन्ति पूर्वसू-
त्रेत्यादि । विकल्पेनेत्यस्यैव विवरणं पूर्वोक्तादित्यादि । तथाचं अन्यथात्वं प्रकरणभे-
दाद्वा नेति सूत्रयोजना । हेतुं विवृण्वन्ति अत्रायमित्यादि । उपनिषदितीत्यन्तम् । तथाच
ब्रह्मणि सर्वत्र सर्वगुणसत्त्वेपि न सर्वत्र सर्वं प्रकटयतीति प्रकरणभेदेन तत्तद्रूपतदीय तत्तद्गुण-
कथनावदगम्यते, तथा सति तत्तदधिकारिणात्तत्तद्गुणा एव तत्र भावनीया इति स्वरूपाणामन्यथा-
त्वाभावात् तस्मिंस्तस्मिन्नुपास्ये रूपे तदेकत्वतदेकरसत्वयोरनपायान्नाब्रह्मत्वम् । अत एव 'अपि
संराधन'सूत्रे 'ज्ञानप्रसादेने'ति श्रुत्या ज्ञानाधिकारिणो निष्कलदर्शनम्, भक्त्यधिकारिणोऽर्जुनस्य
'अनेकबाहूदरे'ति स्मृत्या तद्दर्शनमुक्तमिति सङ्गच्छते । तस्मान्नात्र शङ्केत्यर्थः । अत्र दृष्टान्त-
माहेति । एवं श्रुत्याशये विनिगमकं दृष्टान्तमाहेत्यर्थः । विषयवाक्योदाहरणेन दृष्टान्तं
रश्मिः।
पसंहारबीजबोधकेन । मन्तव्यमिति । मननयोग्यमित्यर्थः ॥ ६ ॥
न वा प्रकरणभेदात् परोवरीयस्त्वादिवत् ॥ ७ ॥ इत्यन्तमिति । भाष्ये ।
बहुविधत्वादिति । ननु सगुणमार्गे 'भक्तिमार्गो बहुविध' इति वाक्यमिति चेत् । न । 'श्रेयोभि-
र्विविधैश्वान्यैः कृष्णे भक्तिर्हि साध्यत' इति वाक्याद्यदा भक्तिसाधनत्वम्, तदा सगुणभक्तिमार्ग-
स्याप्यदुष्टत्वमिति ज्ञापनार्थत्वात् । नेति । क्रीडार्थं न प्रकटयतीत्यर्थः । अपीति । अतीतपादेस्ति
1770