सामग्री पर जाएँ
सर्वकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1881, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1881

तोकादिभावेनाविर्बभूव । तेन यादृग्याहर्हलीलाविशिष्टं यद्यद्बाल्यपौगण्डाद्यव-
स्थाविशिष्टं तत्तद्रूपं नित्यमेवेति वयं जानीमः । नचैवं सच्चिदानन्दविग्र-
होक्तिः सर्वत्र विरुद्धा भवेदिति वाच्यम् । सत्त्वस्यापि भगवद्धर्मत्वेन सच्चि-
दानन्दरूपत्वादविरोधात् । मत्स्याद्यधिष्ठातृरूपाणि तु विभूतिरूपाणि । एतच्च
यथा तथा भक्तिहंसे प्रपञ्चितम् । तत्त्वं च 'प्रकाशाश्रयवद्वा तेजस्त्वा'दितिन्यायेन
भगवद्धर्माणामपि सच्चिदानन्दरूपत्वाद्दीनाधिकारिणामप्युपासकानां फलप्रेप्सूनां
तत्तत्फलदानार्थमैश्वर्यादिरूपेण तत्र तत्र स्थितत्वमेव ।

भाष्यप्रकाशः ।
विशेषान्तरमाहुः अत एवेत्यादि । एवमाविर्भूतशुद्धसाकारब्रह्मत्वादेव एवंरूपत्वं स्वस्मिन् स्फुटं
ज्ञापयितुं वत्साहरणे रासे एकमूर्तिकनानास्त्रीविवाहे नारदपरीक्षायां यथायथं तोकप्रौढराजभावेन
बहुधा प्रकटो जातः । यदि हि तथा न स्यात्, अवतरान्तर इवात्राप्येवं न ज्ञापयेत्, नाप्येवं
प्रकटो भवेत्, अतस्तथा प्राकट्यमेव मूलरूपत्वमहामाहात्म्यादिगमकमित्यर्थः । तेन सिद्धमाहुः तेन
यादृगित्यादि । तेनेति । तोकादिभावेऽपि जृम्भाव्यादानदामोदरलीलासु सर्वात्मकत्वव्यापकत्व-
विरुद्धधर्माश्रयत्वप्रदर्शनेन । तथाचैवं निरवयवत्वेऽप्युपाधौ प्रवेशतो वह्न्ययोगोलकघटाकाशादि-
वदंशांशिभावाविरोधाच्च प्रमाणयोरविरोधः, न वा कृष्णावतारश्रैष्ठ्यविरोध इत्यर्थः । पुनः
किञ्चिदाशङ्क्य परिहरन्ति नचैवमित्यादि । एवमिति । सत्त्वस्याधिष्ठानत्वे । सर्वत्रेति ।
कल्पान्तरीयेष्ववतारेषु । एवं मूलरूपव्यवस्थांमुक्त्वा विभूतिरूपव्यवस्थामाहुः मत्स्येत्यादि । भक्ति-
हंसे प्रपञ्चितमिति । तद्यथा तथा भक्तिहंसविवरणे तदाशयो मया स्फुटीकृत इति ताभ्यामव-
गन्तव्यम् । विभूतिरूपस्वरूपमाहुः तत्त्वमित्यादि । तत्र तत्रेति । उद्गीथादिरूपेषु ।

रश्मिः ।
कार्यगुणानारभन्त इति । एवं रूपत्वमिति । आश्चर्यवत् सार्वविभक्तिकतसिलन्तसर्वतः पाणिपादा-
न्तरूपत्वम् । व्यवस्थितावयवत्वबोधकतोकादिभावेनेति भाष्यविवरणम् । वत्साहरण इत्यादि ।
प्रक्षिप्तत्वेपि 'ततः कृष्णो मुदं कर्तुं तन्मातॄणां च कस्य च । उभयायितमात्मानं चक्रे विश्वकृदीश्वरः ॥
यावद्वत्सपवत्सकाल्पकवपुर्य्यावत्कराङ्घ्र्यादिकं यावद्यष्टिविषाणवेणुदलशिग्यावद्विभूषाम्बरम् । यावच्छील-
गुणाभिधाकृतिवयो यावद्विहारादिकं सर्वं विष्णुमयं गिरोङ्गवदजः सर्वस्वरूपो बभा'विति विषयस्य
स्पष्टत्वात्तदर्थ उक्तः, कृष्णक्रीडात्वाच्च । यावत्तावत्परिमाणे वत्साहरणे । रासे 'कृत्वा तावन्तमात्मान'-
मिति । एकेत्यादिरुत्तरार्धे । बहुधेति । तावतीं मायां दूरीकृत्य । तथेति । बहुधा । अत्राप्येवमिति ।
कृष्णावतारेप्येवमुक्तप्रकारेण स्वस्मिन्सर्वतः पाणिपादान्तत्वं न ज्ञापयेदित्यर्थः । प्रमाणयोरिति ।
'यदेकमव्यक्तमनन्तरूप'मित्यस्य 'निष्कलं निष्क्रियं शान्त'मित्यस्य च विरोधः । तेन यादृगित्या-
दीति । तेनेत्यस्यार्थ उक्तः । आविरिति । 'अचलं चापेक्ष्ये'ति सूत्राङ्गोक्तमनोरथेनाविर्बभूव ।
तेनेति । भक्तार्थं लीलाविर्भावनेन । नित्यमेवेति । नित्यानित्यसंयोगापत्तेरेवकारः । वयमिति । 'मुक्ताना-
मपि सिद्धानां नारायणपरायणः । सुदुर्लभः प्रशान्तात्मा कोटिष्वपि महामुने' इति वाक्यात् । भाष्ये ।
सच्चिदानन्दरूपत्वादिति । 'प्रकाशाश्रयवद्दे'ति सूत्रेण तथा । प्रकृते । तत्त्वमित्यादीति ।
तत्वं विभूतित्वम् । उद्गीथादीति । छान्दोग्ये सन्ति । आदिना 'पृथिवी रसः आपो रसः ओषधयो रसः
पुरुषो रसः वाग्रसः ऋग्रसः साम रसः उद्गीथो रसः । उद्गीथस्यादय उद्गीथादयः पृथिवीरसादयः । तेषु
1756