सामग्री पर जाएँ
सर्वकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 188, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 188

धर्मवत् कर्तृत्वस्याप्युपपत्तेः । सर्वथा निर्धर्मकत्वे सामानाधिकरण्यविरोधः । सत्य-
ज्ञानादिपदानां धर्मभेदेनैव तदुपपत्तेः । नच कर्तृत्वं संसारिधर्मो, देहाद्यध्यास-
कृतत्वादिति वाच्यम् । प्रापञ्चिके कर्तृत्वे तथैव । न त्वलौकिककर्तृत्वे । अत
एवास्थेत्याह । अस्येति पुरोवर्ती प्रपञ्च इदमा निर्दिश्यते । अनेकभूतभौति-
कदेवतिर्यङ्मनुष्यानेकलोकाद्भुतरचनायुक्तब्रह्माण्डकोटिरूपस्य मनसाप्याकलयितु-
मशक्यरचनस्यानायासेनोत्पत्तिस्थितिभङ्गकरणं न लौकिकम् ।
भाष्यप्रकाशः ।
वृत्तत्वेनैक एवार्थः सत्यादिपदैरुच्यत इति वक्तुं युक्तम् । व्यर्थपौनरुक्त्यापत्तेः । तत्तद्भेदधर्मकत्व-
सिद्ध्या घटकुट्यां प्रभाताच । अतः सत्यादिपदानां स्वार्थत्यागोऽपार्थ एव । तदेतदुक्तं धर्मभेदे-
नैव तदुपपत्तेरिति । स्फुटमग्रिमम् ।
[L10