अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1878, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । २१७
नन्वाथर्वणोपनिषत्सु पठ्यते, 'स होवाचाब्जयोनिर्योऽवताराणां मध्ये श्रेष्ठोऽ-
वतारः को भविता, येन लोकास्तुष्टा देवास्तुष्टा भवन्ति, यं स्मृत्वा मुक्ता अस्मात्
संसाराद्भवन्ति, कथं चास्यावतारस्य ब्रह्मता भवति, स होवाच तं१ हि नारायणो
देव' इत्युपक्रम्य, मथुरास्वरूपं निरूप्य, निगद्यते 'यत्रासौ संस्थितः कृष्णः स्त्रीभिः
शक्त्या समाहित' इति, तेनास्यावतारस्याशेषावताराणां मध्ये श्रैष्ठ्यं निरूप्यते,
श्रीभागवतेऽपि च 'एते चांशकलाः पुंसः कृष्णस्तु भगवान् स्वय'मिति गीयते ।
पूर्वोक्तरीत्या तु सर्वतुल्यता प्रतीयत इति नैकतरनिर्धारः सम्भवति । किञ्च । ब्रह्मणो
निरवयवत्वेनैकस्यांशित्वम्, अन्येषां तदंशत्वमित्यपि वक्तुमशक्यमिति प्राप्ते,
भाष्यप्रकाशः ।
तादृशां धर्माणां त्वन्यत्रोपसंहारस्य प्राप्तावसरत्वाच्छाखान्तरीये कर्मणि विद्यायां च शाखान्त-
रीयतद्धर्मस्य रूपान्तरे रूपान्तरधर्मस्य च प्राप्तिरित्यस्या आशङ्काया अनिवृत्तिः, तस्मान्मतान्त-
रीयव्याख्यानमुपेक्ष्यमेवेत्यस्य सूत्रसोक्तरीत्योपसंहारनियमबोधनेन विध्यैकत्वबाधकनिरासार्थतयैव
व्याख्यानमुचितमित्यर्थः ।
एवं मतान्तरं परिहृत्य पूर्वं रूपान्तरे रूपान्तरगुणानुपसंहारे रूपभेदस्य नियामकताया
उक्तत्वात् तं रूपभेदं स्फुटीकर्तुं चिन्तान्तरमारभन्ते नन्वाथर्वणेत्यादि । इयं श्रुतिरुत्तरता-
पनीस्था । तत्र हि दुर्वासाः स्वस्य भगवज्ज्ञानं वक्तुं ब्रह्मनारायणसंवादमुपचिक्षेप । तत्र
नाभिकमलाञ्जातोऽब्जयोनिर्ब्रह्मा एवं प्रश्नमुक्तवान् । अत्र यत्तदोर्नित्यसम्बन्धात् 'स को भविते'ति
तच्छब्दोध्याह्रियते । तत्र श्रैष्ठ्याभिज्ञापकं वाक्यं 'येने'त्यादि, 'ब्रह्मता भवती'त्यन्तम् ।
तथाच लोकानां देवानां तोषजनकः स्मरणेन मुक्तिदाता यः स एव श्रेष्ठः । तस्य ब्रह्मता च केन
प्रकारेणेति प्रश्नद्वयं सिध्यति । 'तं होवाचे'त्यादिना नारायणेनोत्तरमुच्यते । तत्र मथुरास्वरूप-
निरूपणं भूम्यामवतारज्ञापनार्थम् । 'कथं च ब्रह्मते'त्यस्योत्तरं 'यत्रासौ संस्थित'इत्यादिभिः
शक्तिसहितचतुर्व्यूहरूपेणेति सिध्यति । तेनैवमस्य श्रीकृष्णावतारस्य पूर्वोक्तं श्रैष्ठ्यं निरूप्यत इति
सिध्यति । श्रीभागवते तु पुरुषांशावतारमध्ये 'रामकृष्णाविति भुवो भगवानहरद्भर'मिति
भूभारहारकयो रामकृष्णयोः पुरुषांशावतारत्वमुक्त्वा, 'एते चांशकलाः पुंस' इत्यनेन सर्वसाम्यं
चोक्त्वा, 'कृष्णस्तु भगवान् स्वय'मिति केवलस्य कृष्णस्य परब्रह्मत्वमुच्यते । 'यदेकमव्यक्तमन-
न्तरूप'मिति श्रुत्युक्तप्रकारिकया पूर्वोक्तरीत्या तु तथा प्रतीयत इत्येकः सन्देहः । किञ्चेत्या-
रश्मिः ।
तित्वे एतच्छब्दवाच्येतरविधाबाधापत्त्यासेति शिरोव्रतस्यान्याथर्वणिकादन्यत्र याजुषादौ उपसंहारस्य
बाधकः । संनियोगशिष्टन्यायं प्रापयित्येत्यर्थः । एतच्छब्द इति । संनियोगशिष्टन्यायप्रापकः । उक्तरी-
त्येति । भाष्योक्तरीत्या । मतान्तरमिति । शङ्करभास्कररामानुजाचार्याद्युक्तं मतान्तरम् । उक्तत्वादिति ।
'भेदान्नेति चेन्ने'ति सूत्रे भाष्ये चोक्तत्वात् । भाष्ये । उक्तशङ्काया इति । सदाचारादिविरोधेनोपसंहारा-
भावे कर्मभेदशङ्कायाः । प्रकृते । शेषमिति । नैकतरेति । उक्तब्रह्मतासर्वतुल्यतयोरेकतरनिर्धारः ।
१. इयमित्यारभ्य प्राप्तमित्यन्तं इत्यत्र श्रीहस्ताक्षरेषु पाठोयम्-ब्रह्मतेति, मूलरूपता । तापनीयमुखोपबृंहणाय
निःसंदिग्धं श्रीभागवतवाक्यमुदाहृतम् । पूर्वोक्तरीत्येति । 'यदेकमव्यक्तमनन्तरूप'मिति श्रुत्युक्तप्रकारेण । शेषं
विशदव्याख्यातम्-इति । २. प्रकाशे आशङ्का, रश्मौ शङ्केति भाष्यपाठः ।
ब्र० सू० २० ३८
1753