सामग्री पर जाएँ
सर्वकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1866, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1866

भाष्यप्रकाश-रश्मि-परिवृंहितम् । २०५
इति प्राप्ते, उत्तरं पठति ।
स्वाध्यायस्य तथात्वेन समाचारेऽधिकाराच्च सववच्च तन्नियमः ॥ ३ ॥
स्वाध्यायो वेदः । स एकमेव कर्म शाखाभेदेन भिन्नभिन्नप्रकारकं बोध-
यतीति तत्प्रयुक्तः सम्यग्भूतेऽग्निष्टोमादिलक्षण आचारे तत्तदङ्गाचारनियमोऽन्यू-
नानधिककरणलक्षण इत्यर्थः । तावद्भिरेवाङ्गैर्यागसम्पत्तेरधिककरणस्याप्रयोजक-
त्वात् तावतामेवाङ्गानां करणम् । ननूक्तं तद्धर्माणांमप्युपसंहारस्त्वदुक्तरीत्या
भाष्यप्रकाशः।
संहारहेतुकथनेनोपसंहारप्रकारं वदन्नुत्तरं पठतीति बोध्यः ।
स्वाध्यायस्य तथात्वेन समाचारेऽधिकाराच्च सववच्च तन्नियमः ॥ ३ ॥ अत्र
शाखान्तराधिकरणोक्तहेतोः पूर्वसूत्रे परामर्शात् पूर्वतन्त्रविचारे पूर्वकाण्डे च स्वाध्यायशब्दस्य
वेदवाचकत्वेन प्रसिद्धेरस्मिन् सूत्रे 'तथात्वेने'त्यनेन तदुक्तस्य प्रसिद्धस्य प्रकारस्य, 'तन्नियम' इति
तच्छब्देन तत्प्रसिद्धाङ्गाचारस्य च ग्रहणमित्याशयेन व्याकुर्वन्ति स्वाध्यायो वेद इत्यादि। तावन्मा-
त्रनिरूपणस्य यागे तावदङ्गकरणनियमने बीजं स्फुटीकुर्वन्ति तावद्भििरित्यादि । तथाच निरूपण-
प्रकारभेदस्य बाधकस्य सत्त्वान्नोपसंहार इत्यर्थः । द्वितीयं हेतुं² व्याकर्तुमवतारयन्ति नन्वित्यादि ।
रश्मिः।
स्वाध्यायस्य तथात्वेन समाचारेऽधिकाराच्च सववच्च तन्नियमः ॥ ३ ॥ तद्व्य-
वस्थेति । उपसंहारव्यवस्थास्मरणम् । उपेति । उपसंहारबाधकं तु 'यस्त्वनन्तेष्वि'त्यादि पूर्वसूत्र-
भाष्येणाधिकारप्राप्तं प्रकरणमुक्तम् । एवं च स्वाध्यायपूर्वसूत्रं स्वाध्यायसूत्रमिति मध्यमपदलोपी समासो
व्याख्यातव्यः । एवमिति पूर्वोक्तप्रकारेण चोदनाद्यविशेषादिति हेतुशोधनात् । शाखान्तरेति ।
इदमधिकरणं पूर्वतन्त्रे द्वितीयचतुर्थपादद्वितीयाधिकरणेऽस्ति । संयोगादिरूपहेतुचतुष्टयात्मकेन । सिद्ध
इत्यन्तेन तथाचेतिभाष्यं व्याख्यातम् । अग्रे शाखान्तरीयेत्यादि वाजसनेयिनामित्यादि-
भाष्यव्याख्यानम् । अत्र मध्ये त्वदुक्तरीत्येतिभाष्यं तद्व्याख्यानं 'विरुद्धधर्माश्रयत्वस्योपसंहारनि-
यामकत्व'मिति त्वदुक्तरीत्येति । नत्वेवं स इति भाष्यं द्वेधा व्याकुर्वन्ति स्म स वेदित्यादिना ।
आद्रियत इति क्रियाध्याहारः । शिष्टाचारेति । भाष्योक्तादिशब्दार्थोपलक्षकोयम् । क आदि-
शब्दार्थ इति चेत् । नवीनव्याख्यात्रादिस्वीकृतत्वम् । अतीति । अधिकारप्राप्तप्रकरणविरोधः ।
तत्स्मारकमिति । उपसंहारस्मारकम् । तथा 'पञ्चामिविद्यामेवाधिकृत्योक्तोपि षष्ठोभिनं छन्दोगैः
शक्यत उपसंहर्तु'मिति भाष्योक्तोपसंहारस्तत्स्मारकमित्यर्थः । भाष्ये । उक्त इति । बृहदारण्यक
उक्तः । स्वाध्यायो वेद इत्यादीति । भाष्ये द्वान्तसूत्रव्याख्यानमितीत्यन्तभाष्येण । तथाच
स्वाध्यायस्य तथात्वेन एककर्मणः शाखाभेदेन भिन्नभिन्नप्रकारकत्वबोधकत्वेन । हिर्हेतौ तदर्थस्तृतीय-
योक्तः । तत्प्रयुक्तस्तन्नियम इत्यन्वयः । केयत उक्तं सम्यग्भूत इत्यादि । अग्निष्टोमादीति ।
'परमेष्ठिनो वा एष यज्ञोग्र आसीद्यदग्निष्टोम' इति श्रुतेरादिरग्निष्टोमः । अग्निष्टोमाद्यग्निष्टोमोक्थ्याति-
१. ननूपसंहारस्याग्रे वाच्यत्वादिदानीं तत्तत्संज्ञाभावाद्यावृत्तस्तद्व्यवस्थास्मरणमित्याकाङ्क्षायां स्वाध्यायसूत्र उपसंहारबाधक-
थनात् तत्स्मरणमितिबोधनाय सूत्रमवतारयन्ति नन्वित्यादि । एवं हेतुशोधनाच्छाखान्तराधिकरणोक्तहेतुना कर्मक्यवद्विद्यैक्ये
वेद्यैक्ये च सिद्धे शाखान्तरीयकर्मणोपि विद्यातौल्याद्विद्यास्मिन शाखान्तरीयकर्मस्वप्यनुक्तगुणोपसंहारः प्राप्नोति, स चेदाद्रियते,
तदा शिष्टाचारविरोधोतिप्रसङ्गश्च, यदि नाद्रियते, तदा विधेयतादिसाधनम्व्यर्थत्वमिति शङ्कायां सूत्रं वक्तीत्यर्थः । तदेव
तत्स्मारकमित्यर्थः इति पूर्व उत्थानिकापाठः । २. अंशम् ।
1741