सामग्री पर जाएँ
सर्वकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1844, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1844

भाष्यप्रकाश-रश्मि-परिवृंहितम् । १८७
उपपत्तेश्च ॥ ३५ ॥
किञ्च । सत्यज्ञानाद्युक्तधर्मविशिष्टब्रह्मणोऽन्य उत्तमोऽस्तीति वदता तत्रेत
उत्कृष्टधर्मवत्त्वं वाच्यम् । तच्चाशक्यम् । प्रमाणाभावात् । साम्येऽपि तथा विशे-
षाभावोऽद्वैतश्रुतिविरोधश्च । तस्मादितः परस्यानुपपन्नत्वादुक्तरूपमेव परमका-
ष्ठापन्नं वस्त्वित्युपपद्यत इत्यर्थः ॥ ३५ ॥
तथान्यप्रतिषेधात् ॥ ३६ ॥
यथा सेत्वादयः श्रुत्योक्ताः, तथैव 'न तत्समश्चाभ्यधिकश्च दृश्यत' इति
श्रुत्यैव ततोऽधिकस्य प्रतिषेधात् त्वयाप्यस्मदुक्त एव मार्गोऽनुसर्तव्य इत्यर्थः ।
अवतारकाले पूर्वं स्वशक्त्याविर्भावमकृत्वा पश्चात् तदाविर्भावे कृते लोकानां
पूर्वावस्थातो भगवत्येवाधिक्यमिव प्रतीत॑ भवतीत्यभिप्राये