सामग्री पर जाएँ
सर्वकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 179, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 179

९२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० १ सू० १
भाष्यप्रकाशः।
‘वेदे रामायणे चैव पुराणे भारते तथा ।
आदावन्ते च मध्ये च विष्णुः सर्वत्र गीयते’ ॥
इति हरिवंशवाक्याञ्चेत्यप्याहुः । तन्मतेऽपीज्यत्वेनैव वेदार्थत्वाङ्गीकारान्मां विधत्त
इतिवाक्यविरोधः । यत्तु कर्मविधात्री श्रुतिर्मा प्रत्येव तद्विधत्ते, इन्द्राद्यभिधात्री च मामभिधत्ते,
चत्वारि वागितिश्रुत्या अहं विविधरूपत्वेन कल्प्यो, न सुरां पिबेदित्यादिश्रुत्याहमेवाप्रियादपोह्य
इति व्याख्यातम् । तदप्यध्याहारवृत्तिसंकोचलक्षणादोषसंभवाच्चिन्त्यम् । प्रकृतमनुसरामः ।
एवं चात्र सूत्रे शेषषष्ठ्या ब्रह्मसंबन्धिनां जिज्ञास्यताबोधनेन साधारणाधिकारे ज्ञानकर्मसमुच्चयः
उत्कृष्टाधिकारे च भक्तिमार्गीयः सर्वात्मभावः साधनमिति बोधितम् ॥ १ ॥
इति प्रथमं जिज्ञासाधिकरणम् ॥ १ ॥