सामग्री पर जाएँ
सर्वकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1730, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1730

श्रीकृष्णाय नमः ।
श्रीगोपीजनवल्लभाय नमः ।
श्रीमदाचार्यचरणकमलेभ्यो नमः ।*
श्रीमद्ब्रह्मसूत्राणुभाष्यम् ।
भाष्यप्रकाश-रश्मि-परिवृंहितम् ।
तृतीयोऽध्यायः ।
द्वितीयः पादः ।
सन्ध्ये सृष्टिराह हि ॥ १ ॥ ( ३-२-१- )
पूर्वपादे अधिकारियोग्यदेहो निरूपितः । द्वितीये जीवस्य मुक्तियोग्यता
भाष्यप्रकाशः ।
सन्ध्ये सृष्टिराह हि ॥ १ ॥ अथ द्वितीयपादं व्याचिख्यासवः पादयोः सङ्गतिमाहुः पूर्वे-
त्यादि । अधिकारिणो ज्ञानोपदेशयोग्यदेहप्राप्तावपि यदि स्वरूपतो मुक्तियोग्यता न स्यात्, तदा
तादृशदेहाप्तिर्वैयर्थ्यम्, अतस्तदर्थं द्वितीयपादे सा निरूप्यते । यदि हि सा न स्यात्, उपदेशो न
स्थिरीभवेत्, अतस्तदर्थं तन्निरूपणमित्यर्थः ।
माध्वास्तु माहात्म्यज्ञानपूर्वकस्नेहस्य भक्तित्वादमुक्ते माहात्म्ये तदज्ञानेऽस्य भक्तेरप्य-
सम्भवात् तत्सिद्धये माहात्म्यप्रदर्शनायायं पाद इत्याहुः ।
तन्न माहात्म्योक्तिस्तु पूर्वमपि निराबाधा ।
भिक्षुस्तु, पूर्वस्मिन् पादे ब्रह्मणः सकाशादवान्तरसृष्टिरुक्ता । अत्र त्वेकस्मिन् देहेऽपि
खमादिसृष्टिस्तत उच्यते । तावता जन्मादिसूत्रस्थं लक्षणं विचारितं भवति । ततः स्वरूपलक्षणं
विचार्यते, ततः प्रपञ्चब्रह्मणोर्भेदाभेदावित्याह ।
तत्रापि विचारस्य कैमर्थ्याकाङ्क्षा न पूर्यते । तस्मादुक्तमेव प्रयोजनम् । ततश्चैककार्यत्वं
पादयोः सङ्गतिः । अस्या योग्यताया आन्तरत्वं च पादानन्तर्ये हेतुरिति द्रष्टव्यम् ।
रश्मिः ।
सन्ध्ये सृष्टिराह हि ॥ १ ॥ तदर्थमिति । उपदेशस्थिरीकरणार्थम् । तन्निरूपणं
स्वरूपतो मुक्तियोग्यतानिरूपणम् । तदज्ञान इति । विषयत्वेन माहात्म्याज्ञाने । कारणाभावेन ज्ञाना-
भावात् । अस्य पञ्चाग्निविद्यासाधितदेहकस्य । तत्सिद्धये माहात्म्यज्ञानसिद्धये । पूर्वमिति । पूर्व
गतपादे । तेनास्यार्थस्यातिव्याप्तिः । स्वरूपतो मुक्तियोग्यता तु दीक्षितस्य स्वेऽश्वमेधोजनादौ प्राय-
श्चित्तस्मरणात्स्वेऽश्वमेधोजनादिदोषनिवृत्त्या तादृशदोषज्ञानार्थमधिकरणारम्भः । अग्रे दोषासंसर्गे विषय-
निर्धारार्थं ब्रह्मस्वरूपविचार इति नातिव्याप्तिः । माहात्म्यज्ञानं तु श्रवणाङ्गमीमांसाफलं षोडशपा-
दानुस्यूतम् । खमादीति । आदि सुषुप्तिः । तत इति । तदनन्तरं द्वितीयपादे । तत इति ।
तदनन्तरं तृतीयपादे । तत इति । तदनन्तरं चतुर्थपादे । कैमर्थ्येति । असंदिग्धस्य स्वरूप-
लक्षणस्य सूत्रविषयस्य महता प्रबन्धेन विचारः किमर्थ इति कैमर्थ्याकाङ्क्षा । उक्तमिति । खमदो-
षज्ञानम् । एवेति । प्रयोजनद्वयनिरासादेवकारः । एककार्यत्वमिति । अविरोधस्य द्वितीयाध्या-
१० ब्र० सू० २ ०